________________
रघुवंशमहाकाव्ये समासः-कुतुं कायति कुत्वां भवं वा कौतुकम्, विवाहस्य कौतुकं विवाहकौतुकम् तत् । हस्तं गच्छतीति हस्तगामिनी तां तथोक्ताम् ।।
हिन्दी-इसके पश्चात् रघु ने सुन्दर तथा विवाह के समय के मंगलसूत्र को धारण किये हुए ही (अर्थात् कंगना अभी उतारा भी न था) अज के हाथ में पृथ्वी इस प्रकार सौंप दी मानों दूसरी इन्दुमती हो ॥१॥
दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् । तदुपस्थितमग्रहीदजः पितुराज्ञ ति न भोगतृष्णया ॥२॥
संजी०-दुरितैरिति । नृपसूनवो राजपुत्रा यद्राज्यं दुरितैरपि विषप्रयोगादिनिषिद्धोपायैरपि आत्मसात् स्वाधीनम् । 'तदधीनवचने' (पा. ५।४।५४ ) इति सातिप्रत्ययः । कतुं प्रयतन्ते हि । प्रवर्तन्त एवेत्यर्थः । 'हि' शब्दोऽवधारणे । 'हि हेताववधारणे' इत्यमरः । उपस्थितं स्वतः प्राप्तं तद्राज्यम् । अजः पितुराजेति हेतोरग्रहीत् स्वीचकार । भोगतृष्णया तु नाग्रहीत् ।।२।।
अन्वयः-नृपसूनवः यत् दुरितैः अपि आत्मसात् कर्तुं प्रयतन्ते हि उपस्थितं तद् अजः पितुः प्राज्ञा इति अग्रहीत्, भोगतृष्णया न अग्रहीत् ।
व्याख्या-सुन्यते इति सूनवः नृपाणां-राज्ञां सूनवः पुत्राः इति नृपसूनवः यत्-राज्यं दुष्टमितं गमनमेभिः, दुष्टं कृतं करणमेभिर्वा दुरितानि तैः दुरितः= मारणादिपापकर्मभिः अपि आत्मनः अधीनमिति आत्मसात् स्वाधीनं कर्तु-सम्पादयितुं प्रयतन्ते हि-प्रयत्नं कुर्वते प्रवर्तन्त एवेत्यर्थः उपस्थितं-स्वयमागतं स्वतः लब्धमित्यर्थः तत्-राज्यम् अजः रघुपुत्रः पितुः-जनकस्य आज्ञा-प्रादेशः इति हेतोः अग्रहीत् स्वीचकार तर्पणं तृष्णा भोगस्य-सुखादेः तृष्णा-स्पृहा, भोगतृष्णा तया भोगतृष्णया न-नहि अग्रहीत् ।।
समासः-नृपाणां सूनवः नृपसूनवः । भोगस्य तृष्णा भोगतृष्णा तया भोगतृष्णया।
हिन्दी-राजाओं के पुत्र, जिस राज्य को बड़े-बड़े पाप करके भी अपने अधीन करना चाहते हैं । स्वतः प्राप्त उसी राज्य को अज ने अपने पिता की आज्ञा है इस कारण स्वीकार कर लिया, भोग की इच्छा से नहीं ॥२॥