SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये समासः-कुतुं कायति कुत्वां भवं वा कौतुकम्, विवाहस्य कौतुकं विवाहकौतुकम् तत् । हस्तं गच्छतीति हस्तगामिनी तां तथोक्ताम् ।। हिन्दी-इसके पश्चात् रघु ने सुन्दर तथा विवाह के समय के मंगलसूत्र को धारण किये हुए ही (अर्थात् कंगना अभी उतारा भी न था) अज के हाथ में पृथ्वी इस प्रकार सौंप दी मानों दूसरी इन्दुमती हो ॥१॥ दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् । तदुपस्थितमग्रहीदजः पितुराज्ञ ति न भोगतृष्णया ॥२॥ संजी०-दुरितैरिति । नृपसूनवो राजपुत्रा यद्राज्यं दुरितैरपि विषप्रयोगादिनिषिद्धोपायैरपि आत्मसात् स्वाधीनम् । 'तदधीनवचने' (पा. ५।४।५४ ) इति सातिप्रत्ययः । कतुं प्रयतन्ते हि । प्रवर्तन्त एवेत्यर्थः । 'हि' शब्दोऽवधारणे । 'हि हेताववधारणे' इत्यमरः । उपस्थितं स्वतः प्राप्तं तद्राज्यम् । अजः पितुराजेति हेतोरग्रहीत् स्वीचकार । भोगतृष्णया तु नाग्रहीत् ।।२।। अन्वयः-नृपसूनवः यत् दुरितैः अपि आत्मसात् कर्तुं प्रयतन्ते हि उपस्थितं तद् अजः पितुः प्राज्ञा इति अग्रहीत्, भोगतृष्णया न अग्रहीत् । व्याख्या-सुन्यते इति सूनवः नृपाणां-राज्ञां सूनवः पुत्राः इति नृपसूनवः यत्-राज्यं दुष्टमितं गमनमेभिः, दुष्टं कृतं करणमेभिर्वा दुरितानि तैः दुरितः= मारणादिपापकर्मभिः अपि आत्मनः अधीनमिति आत्मसात् स्वाधीनं कर्तु-सम्पादयितुं प्रयतन्ते हि-प्रयत्नं कुर्वते प्रवर्तन्त एवेत्यर्थः उपस्थितं-स्वयमागतं स्वतः लब्धमित्यर्थः तत्-राज्यम् अजः रघुपुत्रः पितुः-जनकस्य आज्ञा-प्रादेशः इति हेतोः अग्रहीत् स्वीचकार तर्पणं तृष्णा भोगस्य-सुखादेः तृष्णा-स्पृहा, भोगतृष्णा तया भोगतृष्णया न-नहि अग्रहीत् ।। समासः-नृपाणां सूनवः नृपसूनवः । भोगस्य तृष्णा भोगतृष्णा तया भोगतृष्णया। हिन्दी-राजाओं के पुत्र, जिस राज्य को बड़े-बड़े पाप करके भी अपने अधीन करना चाहते हैं । स्वतः प्राप्त उसी राज्य को अज ने अपने पिता की आज्ञा है इस कारण स्वीकार कर लिया, भोग की इच्छा से नहीं ॥२॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy