________________
१५१
अष्टमः सर्गः अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनम् । विशदोच्छवसितेन मेदिनी कथयामास कृतार्थतामिव ॥३॥
संजी०-अनुभूयेति । मेदिनी भूमिर्महिषी च ध्वन्यते । वसिष्ठेन संभृतः सलिलैस्तेनाजेन सहाभिषेचनमनुभूय विशदोच्छ्वसितेन स्फुटमुबृदहणेन । प्रानन्दनिर्मलोच्छवसितेन चेति ध्वन्यते । कृतार्थतां गुणवद्भर्तृलाभकृतं साफल्यं कथयामासेव । न चैतावता पूर्वेषामपकर्षः; प्रशंसापरत्वात् । 'सर्वत्र जयमन्विच्छेत् पुत्रादिच्छेत्पराजयम्' इत्यङ्गीकृतत्वाच्च ॥३॥
अन्वयः-मेदिनी वसिष्ठसंभृतैः सलिलैः तेन सह अभिषेचनम अनुभूय, विशदोच्छ्वसितेन कृतार्थतां कथयामास इव ।
व्याख्या-मेदमस्त्यस्यामिति मेदिनी मेद्यति वा मेदिनी-पृथिवी महिषी च वसिष्ठेन महर्षिणा संभृतानि-अभिमंत्र्य प्रोक्षितानि तैः वसिष्ठसंभृतैः सलिलैः-जलैः तेन-अजेन सह-साकम् अभिषेचनं = प्रोक्षणम् पट्टाभिषेकम् अनुभूय-प्राप्य विशदं निर्मलं यत् उच्छ्वसितम्-उबृहणं तेन विशदोच्छवसितेन आनन्दोच्छवसितेन चेति ध्वन्यते कृतः सम्पादितः अर्थः प्रयोजनं यया सा तस्या भावस्तत्ता तां कृतार्थतां स्वेच्छानुरूपपतिलाभरूपं साफल्यं कथयामास इव=जगाद इवेति उत्प्रेक्षायाम् ।
समासः-वसिष्ठेन संभृतानि तैः वसिष्ठसंभृतैः । विशदं यत् उच्छ्वसितं तेन विशदोच्छ्वसितेन । कृतः अर्थः यया सा तस्या भावस्तत्ता तां कृतार्थताम् ।
हिन्दी-अज के राज्याभिषेक के समय, वसिष्ठ जी के द्वारा अभिमंत्रित जल से ( मंत्र पढ़कर छोड़े जल से ) अज के साथ अभिषेक का अनुभव करके ( वह जल जमीन पर भी पड़ा ) पृथिवी ने साफ भाँप से तथा महिषी इन्दुमती ने आनन्द से निर्मल साँस लेकर अपनी सफलता को मानो कह दिया ॥३॥
स बभूव दुरासदः परैर्गुरुणाऽथर्वविदा कृतक्रियः । पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा ॥४॥
संजी–स इति अथर्वविदाऽथर्ववेदाभिज्ञेन गुरुणा वसिष्ठेन कृतक्रियः । अथर्वोक्तविधिना कृताभिषेकसंस्कार इत्यर्थः । सोऽजः परैः शत्रुभिर्दुरासदो दुर्धर्षो