________________
महाकविकालिदास कृत श्री रघुवंश महाकाव्य
प्रथम सर्ग
अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः । वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ।।१।।
संजी०---अथेति । अथ पार्थिवो रघुर्ललितं सुभगं विवाहकौतुकं विवाहमङ्गल विवाहहस्तसूत्र वा बिभ्रत एव । 'कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले' इति शाश्वतः । तस्याजस्य । अपरामिन्दुमतीमिव । वसुधामपि हस्तगामिनीमकरोत् । अस्मिन्सर्ग वैतालीयं छन्दः ॥१॥
वन्देऽहमञ्जनानन्दं वायुपुत्रं महाबलम् ।
यदनुग्रहलेशेन मूको भवति वाक्पटुः ॥ अन्वयः-अथ पार्थिवः ललितं विवाहकौतुकं बिभ्रतः एव तस्य अपराम इन्दुमतीम् इव वसुधाम् अपि हस्तगामिनीम् अकरोत् ।
व्याख्या-प्रथ-अनन्तरम् पृथिव्याः ईश्वरः पार्थिवः राजा-रघुः ललितं-सुभगं विवाहस्य-पाणिग्रहणस्य कौतुकं मंगलं-हस्तसूत्रं वा विवाहकौतुकम्-विवाहकालिकमंगलसूत्रमित्यर्थः, बिभर्ति इति बिभ्रत् तस्य बिभ्रतः धारयतः एव तस्य-अजस्य अपरां-द्वितीयांमन्यामित्यर्थः इन्दुमतीभोज्यामिव वसूनि धारयतीति वसुधा तां वसुधां-पृथिवीमपि हस्तं गच्छतीति हस्तगामिनी तां हस्तगामिनी-करगताम्-स्वपुत्राधीनामित्यर्थः अकरोत् कृतवान् ।