________________
सप्तमः सर्गः
१२३ बन्धेन हेतुना फलिभिर्लोहाग्रवद्भिः। 'सस्यबाणाग्रयोः फलम्' इति विश्वः । पूर्वार्धभागैः । शृणातीति शरुः। तस्मै हितं शरव्यं लक्ष्यम् । 'उगवादिभ्यो यत्' ( पा. ५।११२) इति यत्प्रत्ययः । 'लक्षं लक्ष्यं शरव्यं च' इत्यमरः । संप्रापुरेव, न तु मध्ये पतिता इत्यर्थः ।।४५॥
अन्वयः-अर्धमार्गे परबाणलूना अपि हस्तवतां धनुर्भूतां पृषत्काः आत्मजवानुवृत्या फलिभिः पूर्वार्धभागः शरव्यं सम्प्रापुः एव ।
व्याख्या-अर्धश्चासौ मार्गः अर्धमार्गस्तस्मिन् अर्धमार्गे मार्गमध्ये परेषां शत्रूणां बाणा:=शरास्तैः लूनाः = छिन्ना: = कृत्ताः इति परबाणलूनाः अपि हस्ताः सन्ति येषान्ते हस्तवन्तस्तेषां हस्तवताम् = कृतहस्तानां प्रशस्तहस्तानामित्यर्थः धनूंषि चापान बिभ्रति धारयन्तीति धनुर्मू तस्तेषां धनु ताम् पर्षतीति पृषत् पृषदेव पृषस्कः, अथवा पृषन् = असृजा सिञ्चन् कषति-हिनस्तीति पृषत्कः तस्य बहुवचने, पृषत्काः = बाणाः, आत्मनः स्वस्य जवः वेगः, इति आत्मजवस्तस्य अनुवृत्तिः= अनुबन्धः, तया आत्मजवानुवृत्त्या प्रबलस्ववेगानुबन्धेन कारणेन फलानि = बाणाग्राणि सन्ति येषु तानि तैः फलिभिः=लोहाग्रवद्भिः पूर्वे च ते अर्धभागास्तैः पूर्वार्धभागः = अग्रश्चांशैः शृणातीति शरुः शरवे =हिंस्राय हितमिति शरव्यम् = लक्ष्यं संप्रापुः = प्राप्ताः एव, न तु छि नत्वात् मध्ये पतिता इत्यर्थः ।
समासः-अर्धश्चासौ मार्गस्तस्मिन्, अर्धमार्गे। परेषां बाणास्तैः लूनाः परबाणलूनाः । आत्मनः जवस्तस्य अनुवृत्तिस्तया आत्मजवानुवृत्त्या। पूर्वे च ते अर्धभागास्तैः पूर्वाधभागः ।
हिन्दी सिद्धहस्त (सधा हुआ हाथ) धनुषधारियों के बाण बीच में ही शत्रु के बाण से कट जाने पर भी, अपने प्रबल वेग के कारण लोहे के फल वाले आगे के भाग से लक्ष्य में पहुँच ही जाते थे, अर्थात् योद्धाओं का इतना सफल निशाना एवं वेग था, कि शत्रु के बाण से बीच में कट जाने पर भी बाण का फाल शत्रु को मार गिराता था ॥ ४५ ।।
आधोरणानां गजसंनिपाते शिरांसि चक्रनिशितैः क्षुराः । हतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥४६॥