________________
सप्तमः सर्गः
१२५
संजी०-पूर्वमिति । पूर्व प्रथमं प्रहर्ताऽश्वसादी तौरंगिकः प्रतिहारेऽक्षममशक्त तुरगमस्कन्धे निषण्णदेहम्। मूच्छितमित्यर्थः। रिपुं भूयो न जघान पुनर्न प्रजहार। किंतु प्रत्याश्वसन्तं पुनरुज्जीवन्तमाचकाङ्क्ष । · 'नायुधव्यसनं प्राप्तं नार्तं नातिपरिक्षतम्' ( मनु. ६।९३ ) इति निषेधादिति भावः ॥४७॥
अन्वयः--पूर्व प्रहर्ता अश्वसादी प्रतिप्रहाराक्षम तुरंगमस्कन्धनिषष्णदेहम् रिपुं भूयः न जघान, (किन्तु), प्रत्याश्वसन्तम् आचकाङक्ष । ___ व्याख्या-पूर्व = प्रथमं प्रहरतीति प्रहर्ता = प्रहारकः सीदत्यवश्यमिति सादी अश्वस्य सादी इति अश्वसादी = तुरगारूढः, क्षमत इति क्षमः न क्षमः अक्षमः प्रतिप्रहारे = प्रतिमारणे अक्षमः = अशक्तः तं प्रतिप्रहाराक्ष मम्, तुरङ्गमस्य = अश्वस्य स्कन्धः = अंसः इति तुरंगमस्कन्धस्तस्मिन् निषण्णः = पतितः ( मूछितत्वादित्यर्थः) देहः = शरीरं यस्य स तं तुरंगमस्कन्धनिषण्णदेहम् रिपुं = शत्रु भूय: पुनः न प्रजहार = नहि जघान मूछितस्योपरि प्रहारं न कृतवान् शास्त्रविरुद्धत्वादिति भावः, किन्तु प्रत्याश्वसतीति प्रत्याश्वसन तं प्रत्याश्वसन्तं = प्रत्यागतप्राणंजीवन्तमित्यर्थः आचकाङ्क्ष = इच्छितवान् ।
समास:-सीदत्यवश्यमिति सादी, अश्वस्य सादी इति अश्वसादी। न क्षमः अक्षमः प्रतिप्रहारे अक्षमः इति प्रतिप्रहाराक्षमस्तं प्रतिहाराक्षमम् । स्कद्यते इति स्कन्धः, तुरंगमस्य स्कन्धः तुरंगमस्कन्धस्तस्मिन् निषण्णः देहो यस्य स तं तुरंगमस्कन्धनिषण्णदेहम् ।
हिन्दी-पहले प्रहार करने वाले एक घुड़सवार ने चोट खाने वाले शत्रु को जो कि प्रहार करने में असमर्थ था और मछित होकर घोड़े के कन्धे पर जिसका शरीर झुक गया था, उस शत्रु पर दुबारा प्रहार नहीं किया, किन्तु उसके जी जाने की इच्छा की। अर्थात् यह फिर जी उठे ऐसी इच्छा करने लगा। क्योंकि मूछित शत्रु पर वार न करे यह नीतिशास्त्र की मर्यादा है ।।४७॥
तनुत्यजां वर्मभृतां विकोशैर्बहत्सु दन्तेष्वसिभिः पतद्भिः । उद्यन्तमग्नि शमयांबभूवुर्गजा विविग्नाः करशीकरेण ॥४८॥