________________
सप्तमः सर्गः
११७
समास:
: - न विभाव्याः अविभाव्याः अविभाव्याः वाचः येषान्ते अविभाव्यचाचः। कुलमुपदिश्यते यैस्ते तान् कुलोपदेशान् । बाणेषु लिखितानि अक्षराणि, इति बाणाक्षराणि तैः बाणाक्षरैः । चापं बिभ्रतीति चापभृतः ।
हिन्दी - ( युद्धस्थल में ) बहुत से बाजे बज रहे थे, इस कारण मित्र शत्रु की वाणी को न पहचानने वाले धनुर्धारी योधा अपने कुल गोत्र का उच्चारण नहीं करते थे । किन्तु चलाये गये बाणों में खुदे हुए अक्षरों से ही एक दूसरे के प्रसिद्ध नाम को कहते थे । अर्थात् बाणों पर खुदे हुये नाम से ही एक दूसरे के भेद का ज्ञान होता था, क्योंकि बाजों का कोलाहल बहुत हो रहा था ||३८||
उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचत्रैः । विस्तारितः कुञ्जरकर्णतालैर्नेत्र क्रमेणोपरुरोध सूर्यम् ॥ ३९ ॥
संजी० - उत्थापित इति । संयति संग्रामेऽश्वरुत्थापितः । स्यन्दनवंशानां रथसमूहानां चक्रे रथाङ्गैः सान्द्रीकृतो घनीकृत: । ' वंशः पृष्ठास्थिन गेहोर्ध्व काष्ठे वेणी गणे कुले' इति केशवः । कुञ्जरकर्णानां तालैस्ताडनैविस्तारित: प्रसारितो रेणुर्नेत्र क्रमेणांशुकपरिपाट्यां । अंशुकमिवेत्यर्थः । ' स्याज्जटांशुकयोर्नेत्रम्' इति, 'क्रमोऽघ्रौ परिपाट्यां च' इति च केशवः । सूर्यमुपरुरोधाच्छादयामास ||३९||
अन्वयः - संयति अश्वैः उत्थापितः स्यन्दनवंशचक्रः सान्द्रीकृतः, कुञ्जरकर्णता: विस्तारितः, रेणु: नेत्रक्रमेण सूर्यम् उपरुरोध ।
व्याख्या : - संयति युद्धे अश्वैः तुरगैः उत्थापितः = ऊर्ध्वं नीतः स्यन्दनानां रथानां वंशाः = समूहास्तेषां चक्राणि = रथाङ्गानि तैः स्यन्दनवंशचक्र:, न सान्द्रः असान्द्रः, असान्द्रः सान्द्र: संपद्यमानः कृत इति सान्द्रीकृतः = घनीकृतः, अतिशयितः कुञ्जः = हनुरस्य स कुञ्जरः, कुञ्जराणां = गजानां, कीर्यन्ते शब्दाः येषु ते कर्णाः कर्णयन्तीति वा, कर्णाः = श्रोत्राणि तेषां ताला : = ताडनानि तैः कुञ्जरकर्णतालैः विस्तारित:= प्रसारित: रेणुः = धूलि : नेत्रस्य = अंशुकस्य = वस्त्रस्य क्रमः = परिपाटी, इति नेत्रक्रमस्तेन नेत्रक्रमेण वस्त्रेणेत्यर्थः सूर्य-भास्करम् उपरुरोध=आच्छादयामास रेणुना सूर्यस्योपरोधेनान्धकारोऽभूदित्यर्थः ।