Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
१२०
रघुवंशमहाकाव्ये हिन्दी--गहरी धूल छा जाने पर (युद्धस्थल में) रथ के पहिये की आवाज से रश का ज्ञान हुआ, और लटकते हुए घण्टे के शब्द से हाथी का ज्ञान हुआ, तथा अपने पराये का ज्ञान, अपने २ राजाओं के नाम लेने पर होता था । अर्थात् उस घोर अन्धकार में योद्धा लोग अपने २ स्वामियों के नामोच्चारण से ही अपने पराये का अनुमान करके प्रहार करते थे ॥४१॥
आवृण्वतो लोचनमार्गमाजौ रजोन्धकारस्य विजृम्भितस्य । शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ।।४।।
संजी०-आवृण्वत इति । लोचनमार्गमावृण्वतो दुष्टिपथमुपरुन्धतः । आजौ युद्धे विजृम्भितस्य व्याप्तस्य। रज एवान्धकारं तस्य । शस्त्रक्षतेभ्योऽश्वद्विपवीरेभ्यो जन्म यस्य स तथोक्तो रुधिरप्रवाहो बालारुणो बालार्कोऽभूत्। 'अरुणो भास्करेऽपि स्यात्' इत्यमरः । बालविशेषणं रुधिरसावार्थम् ।।४२।।
अन्वयः--लोचनमार्गम् आवृण्वतः आजौ विजृम्भितस्य रजोन्धकारस्य, शस्त्रक्षताश्वद्विपवीरजन्मा रुधिरप्रवाहः बालारुण: अभूत्।
व्याख्या:-लोच्यन्ते पदार्थाः यस्तानि लोचनानि, लोचनानां नेत्राणां मार्गः = पन्थास्तं लोचनमार्गम् आवृण्वतः = उपरुन्धतः आच्छादयत इत्यर्थः, आजौ = युद्धे विजृम्भितस्य =व्यापृतस्य रज एव=धूलिरेव अन्धकारः = तमस्तस्य रजोन्धकारस्य, अश्वाः= तुरगाः द्विपाः=गजाः वीरा: = भटाश्चेति अश्वद्विपवीराः, शस्त्रः= आयुधैः क्षताः = नष्टा: ये अश्वद्विपवीराः, ते शस्त्रक्षताश्वद्विपवीरास्तेभ्य: जन्म = उत्पत्तिः यस्य स तथोक्तः, रुधिरस्य प्रवाहः = प्रवृत्तिः इति रुधिरप्रवाहः, बालश्चासौ अरुणः बालारुण:=बालसूर्यः प्रातःकालिकः सूर्य इत्यर्थः । अभूत् =जातः।
समास:--लोचनानां मार्ग इति लोचनमार्गस्तं लोचनमार्गम् । रज एव अन्कारस्तस्य रजोन्धकारस्य । शस्त्रैःक्षताः ये अश्वाः द्विपाः वीराश्च ते शस्त्रक्षताश्वद्विपवीरास्तेभ्य: जन्म यस्य स शस्त्रक्षताश्वद्विपवीरजन्मा। बालश्चासावरुणः बालारुणः। रुधिरस्य प्रवाहः रुधिरप्रवाहः।
हिन्दी--आँखों के मार्ग को रोकने वाला तथा युद्धस्थल में फैला हुआ, धूली रूपी अन्धकार के सम्पर्क से शस्त्रों से घायल मरे घोड़े हाथी तथा वीरों के