________________
१०९
सप्तमः सर्गः हिन्दी-लक्ष्मीवान् भोजकुल के दीपक ( कुल को प्रकाशित करने वाला) उस राजा भोज ने इस प्रकार अपनी बहन के विवाह संस्कार को सम्पन्न करके ( दूसरे ) राजाओं की अलग अलग पूजा सत्कार करने के लिये अधिकारियों को आज्ञा दी ॥२९॥ लिङ्गमदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनकाः । वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाछलेन ॥३०॥
संजी०–लिङ्गेरिति । मुद: संतोषस्य लिङ्गश्चिह्नः कपटहासादिभिः संवृतविक्रिया निगूहितमत्सराः । अत एव प्रसन्ना बहिनिर्मला गूढनका अन्तर्लीनग्राहा हृदा इव स्थितास्ते नृपा वैदर्भ भोजमामन्त्र्यापृच्छय तदीयां वैदर्भीयां पूजामुपदाछलेनोपायनमिषेण प्रत्यर्प्य ययुर्गतवन्तः ॥३०॥
अन्वयः-मुदः लिङ्गः संवृतविक्रियाः (अत एव) प्रसन्नाः गूडनकाः ह्रराः इव (स्थिताः) ते वैदर्भम् आमन्त्र्य तदीयां पूजाम् उपदाछलेन प्रत्यर्प्य ययुः।
व्याख्या-मुदः हर्षस्य सन्तोष स्येत्यर्थः, लिङ्गः = चिह्नः कपटहासादिभिरितियावत् । संवृता = निगूहिता विक्रिया = विकृतिः= मत्सरो यैस्ते संवृतविक्रियाः निगूहितान्यशुभद्वेषा इत्यर्थः, अत एव प्रसन्नाः = सन्तुष्टाः=उपरि हर्षप्रदर्शका इत्यर्थः। गूढाः अन्तर्लीना: नक्राः = ग्राहाः येषु ते गूढनकाः हृदा = तडागा इव= यथा ( स्थिता: ) ते = पूर्वोक्ताः स्वयंवरे समागता: नृपाः =राजानः विदर्भाणां राजा वैदर्भस्तं वैदर्भ =भोजम् आमन्त्र्य = आपृच्छय तस्य = भोजस्य इयं तदीया तां तदीयां = भोजसंबन्धिनी पूजां= सत्कारं उपदीयते इति उपदा उपदायाः= उपायनस्य छलं =मिषं तेन उपदाछलेन= उपायनव्याजेनेत्यर्थः प्रत्यH=परावर्तनं कृत्वा ययुः = गतवन्तः स्वकीयां राजधानी प्रतिनिवृत्ताः । ___ समासः-संवृता विक्रिया यस्ते संवृतविक्रियाः, गूढाः नक्राः येषु ते गूढनक्राः । उपदायाः छलं तेन उपदाछलेन ।
हिन्दी--प्रसन्नता के चिह्नों (ऊपरी हंसी आदि) से कुटिलता को छिपानेवाले ( अत एव ) बाहर प्रसन्न दीखते हुए जल में छिपे मगरमच्छवाले ताल के समान वे दूसरे राजा, भोजराज से बिदा लेकर और भोजराज की दी हुई सत्कार । सामग्री को भेंट के बहाने लौटाकर, अपने-अपने देश को लौट गए ॥३०॥