Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
१०२
रघुवंशमहाकाव्ये बभूव । अत्रोत्प्रेक्षते-तस्मिन्द्वये मिथुने तत्क्षणमात्मवृत्ति: सात्त्विकोदयरूपा वृत्तिमनोभवेन कामेन समं विभक्तेव पृथक्कृतेव । प्राक्सिद्धस्याप्यनुरागसाम्यस्य संप्रति तत्कार्यदर्शनात्पाणिस्पर्शकृतत्वमुत्प्रेक्षते । अत्र वात्स्यायन:-'कन्या तु प्रथमसमागमे स्विन्नाङगुलिः स्विन्नमुखी च भवति । पुरुषस्तु रोमाञ्चितो भवति एभिरनयोर्भावं परीक्षेत।' इति । स्त्री-पुरुषयोः स्वेदरोमाञ्चाभिधानं सात्त्विकमात्रोपलक्षणम् । न तु प्रतिनियमो विवक्षित:; 'एभिः' इति बहुवचनसामर्थ्यात् । एवं सति कुमारसंभवे (७।७७)-'रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गलि: पुंगवकेतुरासीत्' इति व्युत्क्रमवचनं न दोषायेति । 'वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य'इत्यपरार्धस्य पाठान्तरे व्याख्यानान्तरम-पाणिसमागमेन पाण्योः संस्पर्शन क; तयोर्वधूवरयोर्मनोभवस्य वृत्तिः स्थितिः समं विभक्तेव। समीकृतेवेत्यर्थः॥२२॥
अन्वयः-वरः कण्टकितप्रकोष्ठः आसीत्, कुमारी स्विन्नांगुलिः संववृते, तस्मिन् द्वये तत्क्षणम् आत्मवृत्तिः मनोभवेन समं विभक्तेव।
व्याख्या-वर:=जामाता अज इत्यर्थः, कण्टकाः संजाता अस्यासौ कण्टकितः, कण्ट कितःपुलकितः प्रकोष्ठः = मणिबन्ध: यस्य सः, कण्टकितप्रकोप्ठः आसीत्= अभूत्, कुमारी=इन्दुमती स्विन्नाः संजातस्वेदा: अंगुलय:=करशाखा: यस्याः सा स्विन्नांगुलि: संववृते = जाता, तस्मिन् = पूर्वोक्त द्वये =मिथुने तत्क्षणं = पाणिग्रहणसमये आत्मनः = स्वस्य वृत्तिः सात्त्विकोदयरूप आत्मव्यापारः मनोभवेन= कामदेवेन समं = समानम् विभक्ता=पृथक्कृता इवेत्युत्प्रेक्षायाम् ।।
समासः--कण्टका: संजाता अस्यासौ कण्टकितः प्रकोष्ठो यस्य सः कण्टकितप्रकोष्ठः । स्विन्ना: अंगुलयो यस्याः सा स्विन्नांगुलिः। आत्मनः वृत्तिरिति आत्मवृत्तिः । मनसि भवतीति मनोभवस्तेन मनोभवेन ।
हिन्दी-(इन्दुमती का हाथ पकड़ने के समय ) अज के मणिबन्ध (गद्रे) के पास रोमांच हो गया और इन्दुमती की अंगुलियाँ पसीने से भर गई, उस समय मानो कामदेव ने अपनी वृत्ति अपना व्यापार अर्थात् (प्रेम भाव) उस जोड़े में पृथक् २ बराबर बाँट दिया है। इन दोनों का अनुराग पहले ही से हो गया था, किन्तु अब उसका कार्य देखने से यह पाणिस्पर्श से हुआ है ऐसी उत्प्रेक्षा की गई है ।। २२ ॥