________________
षष्ठः सर्गः न बालः, अबाल:, अबालश्चासौ, इन्दुरिति अबालेन्दुः तद्वन्नुखम् यस्याः सा ताम् अबालेन्दुमुखीम्। __ हिन्दी---इसके पश्चात् दासी सुनन्दा, जिस राजा की भुजा में बाजूबन्द बंधा हुआ है और शत्रुपक्ष का नाश करने वाले ऐसे कलिंग देश के राजा हेमांगद के समीप खड़ी हुई पूर्णेन्दु के समान सुन्दर मुखवाली कुमारी इन्दुमती से बोली ।५३।
असो महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च । यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥ ५४॥
संजी.--असाविति । महेन्द्राद्रेः समानसारस्तुल्यसत्त्वोऽसौ हेमाङ्गदो महेन्द्रस्य नाम कुलपर्वतस्य महोदधेश्च पतिः स्वामी । महेन्द्रमहोदधी एवास्य गिरिजलदुर्गे इति भावः । यस्य यात्रासु क्षरतां मदस्राविणां सैन्यगजानां छलेन महेन्द्रो महेन्द्राद्रिः पुरोऽग्रे यातीव । अद्रिकल्पा अस्य गजा इत्यर्थः ॥ ५४॥
अन्वयः--महेन्द्राद्रिसमानसारः असौ महेन्द्रस्य महोदधेश्च पतिः (अस्ति) यस्य यात्रासु क्षरत्सैन्यगजच्छलेन महेन्द्रः पुरः याति इव ।
व्याख्या-महेन्द्रश्चासौ अद्रिश्चेति महेन्द्रादिः, महेन्द्राद्रेः = कुलपर्वतस्य समानः = तुल्यः सारः = सत्त्वं बलमित्यर्थः यस्य स महेन्द्राद्रिसमानसारः, असौ= पुरोवर्ती हेमांगदः, महेन्द्रस्य = कुलपर्वतस्य महाश्चासौ उदधिरिति महोदधिस्तस्य महोदधेः = समुद्रस्य, चः = समुच्चये, पतिः = स्वामी अस्तीति शेषः। यस्य = हेमांगदस्य, यात्रासु=प्रयाणेषु गमनेष्वित्यर्थः, सेनायाम् समवेताः सैन्यास्तेषां सैन्यानाम् सैनिकानाम् गजा: हस्तिन: इति सैन्यगजाः, क्षरन्तः=मदवर्षिणश्च ते सैन्यगजाः इति क्षरत्सैन्यगजास्तेषां छलम् = व्याजस्तेन क्षरत्सैन्यगजच्छलेन महेन्द्र:महेन्द्रपर्वतः पुरः अग्रे याति-गच्छति इव पर्वतसदृशा अस्य गजा इति भावः ।
समास:-महेन्द्रश्चासौ अद्रिरिति महेन्द्राद्रिस्तस्य महेन्द्राद्रेः समानः सारो यस्य स महेन्द्राद्रिसमानसारः। महांश्चासौ उदधिरिति महोदधिस्तस्य महोदधेः। सेनायां समवेताः सैन्याः तेषां गजाः, सैन्यगजाः, क्षरन्तश्च ते सैन्यगजाःक्षरत्सैन्यगजाः तेषां छलम् तेन क्षरत्सैन्यगजच्छलेन ।
हिन्दी-महेन्द्रपर्वत के समान शक्तिवाला यह हेमांगद, महेन्द्रपर्वत तथा समुद्र का स्वामी है । अर्थात् इन दोनों पर इसका अधिकार है। और जब यह युद्ध