Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
६८
रघुवंशमहाकाव्ये
समासः-इक्ष्वाको: वंशस्तत्र भवः इक्ष्वाकुवंश्यः । ककुदि तिष्ठतीति ककुत्स्थः । आहितं लक्षणं यस्य स आहितलक्षणः । ककुत्स्थस्यापत्यं पुमान् काकुत्स्थः, काकुत्स्थ इति शब्दः काकुत्स्थशब्दः तं काकुत्स्यशब्दम्। उन्नता इच्छा येषां ते उन्नतेच्छाः । उत्तरश्चासौ कोसल: उत्तरकोसलस्तस्य इन्द्राः उत्तरकोसलेन्द्राः ।
हिन्दी---मनु के पुत्र इक्ष्वाकु के वंश में उत्पन्न राजाओं में श्रेष्ठ और प्रख्यातगुणशाली ककुत्स्थ नाम का एक प्रसिद्ध राजा हुआ था, उस ककुत्स्थ से लेकर अब तक महान आशय वाले उत्तर कोसल के राजा दिलीप आदि, प्रशंसनीय 'काकुत्स्थ' संज्ञा को धारण करते हैं। पूर्वकाल में कभी साक्षात विष्णु का अंशावतार पुरंजय नाम का कोई राजा इक्ष्वाकु के वंश में हुआ था जिसने कि देवताओं के साथ सन्धि करके देवासुर संग्राम में बैलरूपधारी इन्द्र के कन्धे पर बैठकर शिवजी की लीला करके संपूर्ण असुरों का विनाश किया था, उसी समय से इनको बैल के ककुद पर बैठने के कारण ककुत्स्थ' कहते हैं। ऐसी पुराण की कथा है । इसी बात को ७२ वें श्लोक में कहते हैं ।। ७१ ॥
महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्त पिनाकिलीलः । चकार बाणैरसुराङ्गनानां गण्डस्थली: प्रोषितपत्रलेखाः ।।७२।।
संजी०- महेन्द्रमिति । य: ककुत्स्थः संयति युद्धे । महानुक्षा महोक्षः । 'अचतुर-' (पा. ५।४।७७) इत्यादिना निपात: । तस्य रूपमिव रूपं यस्य तं महेन्द्रमास्थायारुह्य । अत एव प्राप्ता पिनाकिन ईश्वरस्य लीला येन स तथोक्तः सन् वाणैरसुराङ्गनानां गण्डस्थली: प्रोषितपत्रलेखा निवृत्तपत्ररचनाश्चकार । तद्भर्तनसुरानवधीदित्यर्थः । न हि विधवाः प्रसाध्यन्त इति भावः ॥ ७२ ॥
अन्वयः--यः संयति महोक्षरूपं महेन्द्रम् आस्थाय (अत एव) प्राप्तपिनाकिलीलः सन् बाणः असुरांगनानां गण्डस्थली: प्रोषितपत्रलेखा: चकार ।
व्याख्या-य: ककुत्स्थः संयति संग्रामे महान् उक्षा महोक्षः महोक्षस्य महावृषस्य रूपमिव रूपम् स्वरूपमाकृतिः यस्य स तं महोक्षरूपं महेन्द्र मघवानम् इन्द्रम् आस्थाय आरुह्य अत एव प्राप्ता अवाप्ता पिनाकिनः शिवस्य लीला क्रीडा येन स प्राप्त पिनाकिलील: सन् वाणैः शरैः असुराणां दैत्यानाम् अंगना: स्त्रियः, तासाम् असुरांगनानाम् गण्डयोः कपोलयोः स्थल्यः स्थलानि गण्डस्थल्यस्ताः गण्डस्थली: