Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
७२
रघुवंशमहाकाव्ये हिन्दी-महाप्रतापी जिस राजा दिलीप के शासनकाल में क्रीडास्थल (उपवनों) के बीच मार्ग में (मद्य पीकर) सोई हुई स्त्रियों के वस्त्रों को वायु भी नहीं हिलाता था। तो फिर उनको अपहरण करने के लिये कौन हाथ लगा सकता था । अर्थात् कोई भी नहीं। याने राजा दिलीप का प्रभाव इतना सुन्दर था कि प्रजा निर्भय होकर विचरण करती थी ॥७५॥
पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोविश्वजितः प्रयोक्ता ।
चतुर्दिगावजितसंभृतां या मृत्पात्रशेषामकरोद्विभूतिम ॥७६।। ___ संजी०-पुत्र इति । विश्वजितो नाम महाक्रतोः प्रयोक्ताऽनुष्ठाता तस्य दिलीपस्य पुत्रो रघुः पदं पत्र्यमेव । प्रशास्ति पालयति । यो रघुश्चतसृभ्यो दिग्भ्य आवजिताहृता संभृता सम्यग्वधिता च या तां चतुर्दिगावजितसंभृतां विभूति संपदं मृत्पात्रमेव शेषो यस्यास्तामकरोत् । विश्वजिद्यागस्य सर्वस्वदक्षिणाकत्वादित्यर्थः ॥७६॥
अन्वयः-विश्वजितः महाकतो: प्रयोक्ता, तस्य पुत्रः रघुः पदं प्रशास्ति, य: चतुर्दिगावर्जितसंभृताम् विभूति मृत्पात्रशेषाम् अकरोत् ।।
व्याख्या-विश्वं जगत् जयति = अभिभवति इति विश्वजित् तस्य विश्वजितः महाश्चासौ ऋतुश्चेति महाऋतुस्तस्य महाक्रतो:= महायज्ञस्य प्रयोक्ता अनुष्ठाता कर्ता, तस्य = दिलीपस्य पुत्रः = आत्मजः = रघुरित्यर्थः पदं = पत्र्यं = राज्यं प्रशास्ति = पालयति । यः= रघुः, चतसभ्यः चतुःसंख्यकाभ्यः दिग्भ्य: = काष्ठाभ्यः आजिता आनीता संभृता = सम्यग्वधिता या सा ताम् चतुर्दिगावर्जितसंभृताम् विभूतिम् = ऐश्वर्यम् संपदम्, मृदः= मृत्तिकाया: पात्रं = भाजनमेव शेषः = अवशिष्ट: भागः यस्याः सा, ताम् मृत्पात्रशेषाम् अकरोत् = कृतवान् । विश्वजिद्यज्ञे सर्वस्वदानादित्यर्थः । ____समासः-विश्वं जयतीति विश्वजित् तस्य विश्वजितः । महांश्चासौ ऋतुश्चेति महाक्रतुस्तस्य महाक्रतोः । चतस्रश्च ता दिशः चतुर्दिशः ताभ्यः आवजिता संभता च या सा तां चतुर्दिगावजितसमताम् । मद: पात्रमेव शेषः यस्याः सा तां मत्पात्रशेषाम् ।
हिन्दी-विश्वजित् नाम के महायज्ञ को करने वाला रघु नामक दिलीप का पुत्र, पिता के राज्य का ही पालन कर रहा है। जिसने चारों