________________
षष्ठः सर्गः
७३
दिशाओं को जीतकर लाई हुई तथा खूब बढ़ायी गई - अपार संपत्ति को, मिट्टी का पात्र ही रह गया है शेष जिसमें ऐसी कर दिया । अर्थात् विश्वजिद् यज्ञ में सर्वस्व दान देकर अपने पास रघु ने केवल मिट्टी के बर्तन ही रखे थे । क्योंकि इस यज्ञ में सर्वस्व दान दिया जाता है ।। ७६ ।।
आरुमद्रीनुदधीन्वितीर्ण भुजंगमानां वसतिं प्रविष्टम् । ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयालम् ॥७७॥ संजी० - आरूढमिति । किंच, अद्रीनारूढम् । उदधीन्वितीर्णमवगाढम् । सकलभूगोलव्यापकमित्यर्थः । भुजंगमानां वसतिं पातालं प्रविष्टम् । ऊर्ध्वं स्वर्गादिकं गतं व्याप्तम् । इत्थं सर्वदिग्व्यापीत्यर्थः । अनुबध्नातीत्यनुबन्धि चाविच्छेदि । कालत्रयव्यापकं चेत्यर्थः, अत एवैवंभूतं यस्य यश इयत्तया देशतः कालतो वा केनचिन्मानेन परिच्छेत्तुं परिमातुं नालं न शक्यम् ।। ७७ ।।
अन्वयः -- अद्रीन् आरूढम् उदधीन् वितीर्णम्, भुजंगमानां वसतिं प्रविष्टम् ऊर्ध्वं गतम् अनुबन्धि च ( अत एव एवं भूतम् ) यस्य यशः इयत्तया परिच्छेत्तुं न अलम् ।
=
व्याख्या–अद्रीन्= पर्वतान् आरूढम् = अधिष्ठाय स्थितम् उदधीन् समुद्रान् वितीर्णम्=अवलंघितम् सम्पूर्णमृत्युलोके व्याप्तमित्यर्थः, भुजैः गच्छन्ति ते भुजंगमास्तेषां भुजंगमानां = सर्पाणां वसतिं = निवासस्थानं = पाताललोकं प्रविष्टम् = गतम्, ऊर्ध्वं = स्वर्गलोकं गतम् = व्याप्तम् सर्वदिग्व्याप्तमित्यर्थः, अनुबध्नातीति अनुबन्धि = अविच्छेदि च = समुच्चये, कालत्रयव्यापकमिति यावत् । अत एव, इत्थं भूत ं यस्य = दिलीपपुत्रस्य रघोः यशः = कीर्तिः इयत्तया = देशतः कालतो वा केनापि मानेन परिच्छेत्तुं = परिमातुं न = नहि, अलम् = शक्यम् । रघुयशसः देशकालाभ्यां परिमाणं नास्तीत्यर्थः ।
समासः–उदकानि धीयन्ते येषु ते उदधयः तान् उदधीन् । भुजैः गच्छन्ति ते भुजंगमास्तेषां भुजंगमानाम् । अनुबध्नातीति, अनुबन्धि । इयतः भावः इयत्ता,
तया इयत्तया ।
हिन्दी - और जो पर्वतों के ऊपर तथा समुद्रों के पार तक गया हुआ (अर्थात् सारे भूलोक में फैला हुआ ) और पाताल में स्वर्गलोक में व्याप्त है