Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
षष्ठः सर्गः
७९
हिन्दी-करभ के समान (हाथ के बगलभाग के सदृश) जंघाओं वाली कुमारी इन्दुमती ने कुंकुम के चूर्ण से लाल धागे वाली माला को सुनन्दा के हाथों से रघुपुत्र अज के गले में ठीक यथास्थान पहनवा दिया। वह माला क्या थी मानो माला का रूप धारण किये हुए इन्दुमती का अनुराग था ।। ८३ ।।
तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः। अमंस्त कण्ठापितबाहुपाशां विदर्भ राजावरजां वरेण्यः ॥८४॥
संजी०–तयेति । वरेण्यो वरणीय उत्कृष्टः । वृज एण्यः । सोऽजो मङ्गलपुष्प मय्या मधूकादिकुसुमय्या विशालवक्षःस्थले लम्बया लम्बमानया तया प्रकृतया सजा विदर्भराजावरजामिन्दुमती कण्ठापितो बाहू एव पाशौ यया ताममंस्त । मन्यतेर्लुङ् । बाहुपाशकल्पसुखमन्वभूदित्यर्थः ॥ ८४ ॥
अन्वयः-वरेण्य : स मंगलपुष्पमय्या विशालवक्षःस्थललम्बया तया लजा विदर्भराजावरजां कठापितबाहुपाशाम् अमंस्त ।
व्याख्या--वरितुं योग्यः वरेण्यः वरणीयः इत्यर्थः स = अजः मंगलानि = मांगलिकानि (मंगलार्थानीत्यर्थः) च तानि पुष्पाणि = कुसुमानि, इति मंगलपुष्पाणि तान्येव मंगलपुष्पमयी तया मंगलपुष्पमय्या, विशालं महत् च तत् वक्षःस्थलम् =उरःस्थलमिति विशालवक्षःस्थलं तस्मिन् लम्बा = लम्बमाना या सा तथोक्ता, तया विशालवक्षःस्थललम्बया, तया= पूर्वोक्तया स्रजा=मालया विदर्भाणां राजा तस्य विदर्भराजस्य = भोजस्य अवरजा = भगिनी तां विदर्भराजावरजाम् =इन्दुमतीम, कण्ठे = गले अपितौ = दत्तो बाह = करौ एव पाशौ यया सा तां कण्ठापितबाहुपाशाम्, अमस्त = अमन्यत । कण्ठापितबाहुपाशतुल्यं सुखमन्वभवदित्यर्थः।
समासः--वरितुं योग्य: वरेण्यः । मंगलानि च तानि पुष्पाणि मंगलपुष्पाणि प्रकृतानि उच्यन्ते यस्यां सा मंगलपुष्पमयी तया मंगलपुष्पमय्या। विशालं च तत् वक्षःस्थलमिति विशालवक्षःस्थलं तत्र लम्बा तया विशालवक्षःस्थललम्बया। कण्ठे अर्पितौ बाहू एव पाशौ यया सा तां कण्ठापितबाहुपाशाम् । विदर्भाणां राजा तस्य अवरजा तां विदर्भराजावरजाम् ।
हिन्दी--वरण करने योग्य (श्रेष्ठवर) वह अज ने, मांगलिक महुवे के फूलों से बनी हुई, तथा अज की चौड़ी छाती पर लटकती हुई उस माला से (पहनाने