________________
रघुवंशमहाकाव्य हिन्दी-स्वयंवर हो चुकने पर योग्य वर से व्याही हुई अपनी बहन इन्दुमती को साथ लेकर विदर्भ देश ( अब बरार प्रदेश ) के राजा भोज नगर की ओर चले। इन्दुमती के साथ चलते हुए अज ऐसे लग रहे थे, मानो साक्षात् देवसेना ( अपनी पत्नी ) के साथ स्कन्द चल रहे हों ।।१।।
सेनानिवेशान्पृथिवीक्षितोऽपि जग्मुविभातग्रहमन्दभासः । भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेशेषु च साभ्यसूयाः ॥२॥ संजी०-सेनेति । भोजस्य राज्ञो गोत्रापत्यं स्त्री भोज्या तामिन्दुमती प्रति व्यर्थमनोरथत्वाद्रूपेष्वाकृतिषु वेशेषु नेपथ्येषु च साभ्यसूया वृथेति निन्दन्तः । किंच विभाते प्रातःकाले ये ग्रहाश्चन्द्रादयस्त इव मन्दभासः क्षीणकान्तयः पृथिवीक्षितो नपा अपि सेनानिवेशान् शिबिराणि जग्मुः ॥२॥
अन्वयः-भोज्यां प्रति व्यर्थमनोरथत्वात् रूपेषु वेशेषु च साभ्यसूयाः विभातग्रहमन्दभास: पृथिवीक्षितः अपि सेनानिवेशान् जग्मुः।
व्याख्या-भोजस्य राज्ञः गोत्रापत्यं स्त्री भोज्या तां भोज्याम् इन्दुमती प्रति व्यर्थः = नष्टः मनोरथ: अभिलाषो येषां ते व्यर्थमनोरथास्तेषां भावस्तत्त्वं तस्मात् व्यर्थमनोरथत्वात् रूपेषु =आकृतिषु =स्वसौन्दर्येषु इत्यर्थः वेशेषु = नेपथ्येषु स्वकीयप्रसाधनादिष्वित्यर्थः, अभ्यसूयया=गुणेषु दोषारोपेण सह वर्तन्ते इति साभ्यसूया: स्वगुणेषु दोषारोपवन्तः अर्थात् अस्माकं रूपाणि =नेपथ्यानि च वथेति निन्दन्तः, किञ्च विभाते प्रातःकाले ये ग्रहाः= चन्द्रतारकादय: इति विभातग्रहाः, विभातग्रहा इव मन्दा=नष्टा=क्षीणा भा: कान्तिः येषां ते विभातग्रहमन्दभासः । पृथिवी क्षियन्ति इति पृथिवीक्षितः पृथिवीसंचालकाः राजान: अपि= च सेनायाः सैन्यस्य निवेशा:=शिबिराणि तान् जग्मुः = गतवन्तः ।
समासः-व्यर्थः मनोरथ : येषां तेषां भाव: व्यर्थमनोरथत्वम् तस्मात् । अभ्यसूयया सह वर्तन्ते इति साभ्यसूया:। विभातस्य ग्रहा: विभातग्रहा: तद्वत् मन्दा भाः येषां ते तथोक्ता:। पृथिवी क्षियन्ति इति पृथिवीक्षित:। सेनाया निवेशा:, तान् ।
हिन्दी-इन्दुमती के मिलने की आशा के नष्ट होने से अपने-अपने सौन्दर्य तथा सजावट ( वस्त्रालंकार आदि ) की निन्दा करते हुए और प्रात:काल के