________________
षष्ठः सर्गः
५५
( क्योंकि वहाँ पर ) दूसरे द्वीपों से लवंग के फूलों की सुगन्ध ले आने वाले वायु, तुम्हारे पसीने को शान्त करेंगे । अर्थात् शीतल मन्द सुगन्ध वायु तुम्हारे पसीने को पोंछा करेगा ।। ५७ ॥
प्रलोभिताप्याकृतिलोभनीया विदर्भ राजावरजा तयैवम् । तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदेवात् ॥ ५८ ॥ संजी० - प्रलोभितेति । आकृत्या रूपेण लोभनीयाऽऽकर्षणीया । न तु वर्णनमात्रेणेत्यर्थः । विदर्भराजावरजा भोजानुजेन्दुभती तया सुनन्दयैवं प्रलोभितापि प्रचोदितापि । नीत्या पुरुषकारेण दूरकृष्टा दूरमानीता लक्ष्मीः प्रतिकूलं दैवं यस्य तस्मात् पुंस इव । तस्माद्धेमाङ्गदादपावर्तत प्रतिनिवृत्ता ॥ ५८ ॥
अन्वयः - आकृतिलोभनीया विदर्भराजावरजा तया एवं प्रलोभितापि, नोत्या दूरकृष्टा लक्ष्मीः प्रतिकूलदेवात् (पुंसः ) इव तस्मात् अपावर्तत ।
व्याख्या—आकृत्या = सुरूपेण, लोभनीया = आकर्षणीया विदर्भाणां राजा विदर्भराजः, विदर्भराजस्य = भोजस्य, अवरजा = अनुजा = इन्दुमतीत्यर्थः तया सुनन्दया एवं पूर्वोक्तप्रकारेण प्रलोभिता = प्रेरिता अपि नीत्या = नयेन पुरुषकारेणेत्यर्थः दूरं=विप्रकृष्टम् कृष्टा = आनीता, इति दूरकृष्टा लक्ष्मीः =श्रीः संपत् प्रतिकूलम् = विरुद्धं देवं = भाग्यं यस्य स तस्मात् प्रतिकूलदैवात् पुंसः इति शेषः, इवं = यथा तस्मात् == हेमांगदात् अपावर्तत = अपासरत् ।
समास :- विदर्भाणां राजा विदर्भराजः, तस्य अवरजा विदर्भराजावरजा । आकृत्या लोभनीया आकृतिलोभनीया । दूरं कृष्टेति दूरकृष्टा । प्रतिकूलं दैवं यस्य सः, तस्मात् प्रतिकूलदैवात् ।
हिन्दी - केवल वर्णन से नहीं किन्तु चेहरे से आकर्षणीय (लुआयमान होनेवाली ) भोज राजा की छोटी बहन इन्दुमती, अपनी उस दासी से इस प्रकार प्रेरित हो जाने पर भी, हेमांगद राजा को छोड़कर उसी प्रकार आगे बढ़ गई जैसे कि पुरुषार्थ से लाई हुई सम्पत्ति भाग्य के फेर से पुरुष को छोड़कर चली जाती है ॥ ५८ ॥
अथोरगाख्यस्य पुरस्य नाथं दौवारिकी देवसरूपमेत्य । इतश्चकोराक्षि ! विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् ॥ ५९॥