Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
६०
रघुवंशमहाकाव्ये संजी०–अनेनेति । महाकुलीनेन महाकुले जातेन। 'महाकुलादखनौ' (पा. ४।१।१४१ ) इति खञ्प्रत्ययः अनेन पाण्डयन पाणौ त्वदीये विधिवद्यथाशास्त्रं गृहीते सति गुर्वी गुरुः । 'वोतो गुणवचनात्' (पा. ४।१।४४) इति डीए । महीव रत्नैरनुविद्धो व्याप्तोऽर्णव एव मेखला यस्यास्तस्याः । इदं विशेषणं मह्यामिन्दुमत्यां च योज्यम् । दक्षिणस्या दिशः सपत्नी भव । अनेन सपत्न्यन्तराभावो ध्वन्यते ॥ ६३ ।।
अन्वयः-महाकुलीनेन अनेन पाणौ विधिवत् गृहीते, सति, गुर्वो मही इव रत्नानु विद्यार्णवमेखलायाः दक्षिणस्याः दिशः सपत्नी भव ।
व्याख्या-महत् कुलमस्य स महाकुलः, महाकुले जातः महाकुलीनस्तेन महाकुलीनेन=आर्यवंशोत्पन्नेन अनेन पाण्डयेन पाणौ = त्वदीयकरे विधिना= तुल्यं विधिवत-यथाशास्त्रम् गृहीते = स्वीकृते सति विवाहे कृते सतीत्यर्थः गुर्वी = महती, मही=पृथिवी, इव-यथा, रत्नैः=मण्यादिभिः, अनुविद्धः = व्याप्तः, अर्णवः = सागरः एव मेखला = कांची यस्याः सा तस्याः रत्नानुविद्धार्णवमेखलायाः दक्षिणस्याःयाम्या: दिश:-काष्ठायाः समानः पतिर्यस्या स सपत्नी-द्वितीया भार्या, भव = भूयास्त्वसमानः मिति शेषः ।।
समास:-महत् कुलं यस्य स महाकुल: महाकुले जातः तेन महाकुलीनेन । विधिना तुल्यं विधिवत् । रत्नैः विद्धः इति रत्नानुविद्धः, अर्णवः एव मेंखला यस्याः सा, तस्याः रत्नानुविद्धार्णवमेखलायाः, अर्णव इव मेखला यस्याः-इतीन्दुमतीपक्षे । पतिः यस्याः सा सपत्नी।
हिन्दी-उच्चकुल में उत्पन्न इस पाण्ड्य राजा के साथ विधिपूर्वक पाणिग्रहण करके तुम बड़ी भारी (लम्बी चौड़ी) पृथिवी के समान रत्नों से पूर्ण उस दक्षिण दिशा की सौत बन जाओ, जिसकी तगड़ी रत्नों से भरा समुद्र ही है । विशेषपृथिवी भी रत्नों से परिपूर्ण है और इन्दुमती की तगड़ी भी रत्नों से जड़ित है । पृथिवी भी महान् है और इन्दुमती भी महान् है । इसमें एक यह भी है कि तुम ही सपत्नी बनोगी दक्षिण दिशा की अर्थात् तुम्हारी कोई सौत नहीं रहेगी।६३।
ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु । तमालपत्रास्तरणासु रन्तु प्रसीद शश्वन्मलयस्थलीषु ॥६४॥