Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
५८
रघुवंशमहाकाव्ये समान सुशोभित हो रहा है जो प्रातःकालीन धूप से लाल चौरस भूमि वाला हो गया है और जिससे अनेक पानी के झरने गिर रहे हैं ॥ ६० ॥
विन्ध्यस्य संस्तम्भयिता महाद्रेनिःशेषपीतोज्झितसिन्धुराजः। प्रीत्याश्वमेधावभथाई मूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः ।।६।।
संजील-विन्ध्यस्येति । विन्ध्यस्य नाम्नो महाद्रेः तपनमार्गनिरोधाय वर्धमानस्येति शेषः । संस्तम्भयिता। निवारयिता । निःशेषं पीत उज्झितः पुनस्त्यक्तः सिन्धुराजः समुद्रो येन सोऽगस्त्योऽश्वमेधस्यावभथे दीक्षान्ते कर्मणि । 'दीक्षान्तोऽवभयो यज्ञे' इत्यमरः । आर्द्रमूर्तेः । स्नातस्येत्यर्थः । यस्य पाण्ड्यस्य प्रीत्या स्नेहेन । न तु दाक्षिण्येन सुस्नातं पृच्छतीति सौस्नातिकः । भवति । 'पृच्छतौ सुस्नातादिभ्यः' (वा. २९५३) इत्युपसंख्यानाट्ठक् ॥ ६१ ॥
अन्वयः-विन्ध्यस्य महाद्रेः संस्तम्भयिता निःशेषपीतोज्झितसिन्धराजः अगस्त्यः अश्वमेधावभृथामू: यस्य प्रीत्या सौस्नातिकः भवति ।
व्याख्या-विन्ध्याचलस्य महांश्चासौ अदिरिति तस्य महाद्रेः सूर्यस्य मार्गवरोद्धं प्रवर्धमानस्येत्यर्थः संस्तम्भयिता = निरोद्धा नियन्ता इत्यर्थः, निःशेषं = सम्पूर्णं पीतः = आचामितः पश्चात् उज्झितः =त्यक्तः सिन्धनां राजा = समुद्रः येन स निःशेषपीतोज्झितसिन्धुराजः, अगस्त्यः = एतन्नामा मुनिः कुम्भयोनिरित्यर्थः। अश्वमेधस्य = अश्वमेघयज्ञस्य अवभृथे = दीक्षान्तकर्मणि = यज्ञान्तस्नाने इत्यर्थः आर्द्रा = क्लिन्ना = स्नाता मूर्तिः == शरीरं यस्य स तस्य अश्वमेधवभथामर्तेः यस्य = पाण्डयस्य प्रीत्या = प्रेम्णा सुस्नातं पृच्छतीति सौस्नातिकः = सुस्नातं भवतेति प्रष्टा भवति।
समास:-सिन्धनां राजा सिन्धुराजः निःशेष पीतः पश्चात उज्झित: सिन्धराजः येन स निःशेषपीतोज्झितसिन्धुराजः । महांश्चासौ अद्रिरिति महादिस्तस्य महाद्रः । अश्वमेधस्य अवभथे आर्द्रा मतिः यस्य स तस्य अश्वमेधावभथामर्तेः । सुस्नातं पृच्छतीति सौस्नातकः ।।
हिन्दी--विन्ध्य नामक महापर्वत को (ऊपर बढ़ने से रोकने वाले और जिन्होंने सम्पूर्ण समुद्र को पीकर पीछे मुख से निकाल दिया था, ऐसे अगस्त्य ऋषि, अश्वमेध यज्ञ के अन्त में अवभृथ स्नान से भीगे शरीर वाले इस पाण्डु देश के राजा को प्रेम से 'आपने अच्छी तरह स्नान कर लिया' ऐसा पूछते हैं ॥६१।