________________
षष्ठः सर्गः अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्तः । पुरा जनस्थानविमर्दशङ्की संधाय लङ्काधिपतिः प्रतस्थे ॥ ६२
संजी०-अस्त्रमिति । पुरा पूर्वं जनस्थानस्य खरालयस्य विमर्दशङ्की दृप्त उद्धतो लङ्गाधिपति रावणो दुरापं दुर्लभमस्त्रं ब्रह्म शिरोनामक हरादाप्तवता येन पाण्डयेन संधाय इन्द्रलोकावजयायेन्द्रलोकं जेतुं प्रतस्थे । इन्द्रविजयिनो रावणस्यापि विजेतेत्यर्थः ॥ ६२ ॥ ___ अन्वयः-पुरा जनस्थानविमर्दशंको लंकाधिपतिः दुरापम् अस्त्रं हरात् आसवता येन संधाय, इन्द्रलोकावजयाय प्रतस्थे ।
व्याख्या-पुरा पूर्वम्, जनस्थानस्य खरालयस्य दण्डकारण्यस्येत्यर्थः विमर्दविनाशं शंकते = आशंकते यः स जनस्थानविमर्दशंकी दृप्तः = उद्धतः =उद्दण्डः लंकाया: = राक्षसराजधान्या:, अधिपतिः = स्वामीति लंकाधिपतिः रावण इत्यर्थः, दुःखेन आप्यते यत् तत् दुरापम् = दुर्लभम्, अस्त्रम् ब्रह्मशिरोनामकम् हरात् = महादेवात् आप्तवता = प्राप्तवता येन = पाण्डयेन, संधाय = सन्धि कृत्वा, इन्द्रस्य लोकः अमरावती, इति इन्द्रलोकः तस्य अवजयः पराजयः तस्मै इन्द्रलोकवजयाय स्वर्गलोकं विजेतुमित्यर्थः । प्रतस्थे प्रययौ । रावणोऽपि अस्माद् विभेति स्मेति भावः ।
समासः-जनस्थानस्य विमर्द शंकते, इति जनस्थानविमर्दशंकी। लंकाया अधिपतिरिति लंकाधिपतिः । दुःखेन आप्यते यत् तत् दुरापम् । इन्द्रस्य लोकस्तस्य अवजयस्तस्मै इन्द्रलोकावजयाय ।
हिन्दी पहले ( जब रावण इन्द्रलोक की विजय करने चला तब ) खरदूषण के निवास स्थान दण्डकारण्य के विनाश की आशंका करने वाला, घमण्डी लंका का राजा रावण, इस पाण्ड्य राजा से सन्धि करके ही इन्द्रलोक को जीतने के लिए गया था। क्योंकि इस राजा ने बड़ा प्रचंड दुर्लभ अस्त्र शिवजी से प्राप्त किया था। अर्थात् इस राजा ने भी शिवजी से बड़ा प्रतापी अस्त्र पाया है कहीं मेरे पीछे से जनस्थान को नष्ट भ्रष्ट करके मेरा राज्य न छीन ले इस डर से इससे सन्धि करके रावण ने स्वर्गयात्रा की थी॥ ६२ ॥
अनेन पाणी विधिवद्गृहीते महाकुलीनेन महीव गुर्वी। रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः॥६३॥