________________
पञ्चमः सर्गः
७ ३
समा० - निद्रायाः वशः निद्रावशस्तेन निद्रावशेन । अवेक्षते इति अवेक्षमाणान अवेक्षमाणा इति अनवेक्षमाणा । दिशामन्तः दिगन्तः, दिगन्तं लम्बते तच्छील इति दिगन्तलम्बी । तव आननं स्वदाननं स्वदाननस्य रुचिः इति स्वदाननरुचिस्तां त्वदाननरुचिम् |
अभि० - निद्रारूपान्यस्त्रियामनुरक्तं त्वां ज्ञात्वा रात्रौ खण्डिता अबलेव खिन्ना सती तर सौन्दर्यलक्ष्मीः, स्वामभिलषन्त्यपि तवाननसदृशं चन्द्रं स्वमनोविनोदार्थमाश्रितवती, इदानीं स चन्द्रोऽप्यस्तंगत इति सा निराश्रया जाता अतस्त्व निद्रां विहाय अनन्यशरणां तां लक्ष्मीमाश्वासय ।
हिन्दी - निद्रारूपी दूसरी स्त्री के वश में हुए तुम्हें जानकर तुमको चाहती हुई भी तुम्हारी सौन्दर्य-लक्ष्मी, तुमसे खिन्न होकर तुम्हारे ही मुख के सदृश सुन्दर चन्द्रमा के पास अपनी विरह वेदना मिटाने के लिये, रात में खण्डिता नायिका की तरह चली गयी थी, किन्तु वह चन्द्रमा भी इस समय क्षीण कान्ति ( अस्त ) हो रहा है, और वह सौन्दयलक्ष्मी निराश्रित हो गयी है । अतः निद्रा का परित्याग करके तुम उसे स्वीकार कर लो ॥६७॥
तद्वल्गुना युगपदुन्मिषतेन तावत्सद्यः परस्सलामधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरता र मन्तश्चक्षुस्तव प्रचलित भ्रमरं च पद्मम् ॥ ६८ ॥
सब्जीविनी – तत्तस्माल्लक्ष्मीपरिग्रहणाद्वल्गुना मनोज्ञेन च ' वल्गु स्थाने मनोज्ञे च वल्गु भाषितमन्यवत्' इति विश्वः । युगपत्तावदुन्मिषतेन युगपदेवोन्मीलितेन सद्यो द्वे अपि परस्परतुलामन्योन्यसादृश्यमधिरोहतां प्राप्नुताम् । प्रार्थनायां लोट् । के द्वे अन्तःप्रस्पन्दमाना चलन्ती परुषेतरा स्निग्धा तारा कनीनिका यस्य तत्तथोक्तम् । 'तारकाक्ष्णः कनीनिका' इत्यमरः । तत्र चक्षुः अन्तः प्रचलित भ्रमरं चलद्भृङ्गं पद्म ं च । युगपदुन्मेषे सति संपूर्ण सादृश्यलाभ इति भावः ||६८ ||
अन्वयः -- तत्, वल्गुना, युगपत् तावत्, उन्मिषितेन, सद्यः, द्वे, परस्परतुलाम्, अधिरोहतां, 'के द्वे' अन्तः प्रस्पन्दमानपरुषेतरतारं तव, चक्षुः, “अन्तः” प्रचलित भ्रमरं, पद्म, च ।
9
वाच्य० - - द्वाभ्यामपि परस्परतुला अधिरुह्यताम्, अन्तः प्रस्पन्दमानपरुषेतरतारेण तव चक्षुषा, अन्तः पंचलितभ्रमरेणपद्मेन च ।