________________
रघुवंशमहाकाव्ये अन्वयः-अपरः विलासी अंसात् वित्रस्तम् रत्नानुविद्धांगदकोटिलग्नम् प्रालम्बम् उत्कृष्य साचीकृतचारवक्त्रः सन् यथावकाशम् निनाय ॥ १४ ॥
व्याख्या-विलसति तच्छील : इति विलासी = विलसनशील:, अपर: अन्यः राजा अंसात् स्कन्धात्, विस्रस्तम्-गलितम्, रत्नैः हीरकादिभिः,अनुविद्धम् खचितम् यत् अंगदम्-केयम् इति रत्नानुविद्धांगदम् तस्य कोटौ = कोणे, लग्नम् संश्लिष्टम्, इति रत्नानुविद्धांगदकोटिलग्नम् प्रालम्बम् ऋजुलम्बिनीम् मालाम्, (क्वचित् पुस्तके प्रावारमिति पाठे तु प्रावारम् = उत्तरीयवस्त्रम् ) उत्कृष्य = उद्धृत्य न साचि, इति असाचि, असाचि साचि कृतमिति साचीकृतम्-तिर्यवकृतम्, चारु-सुन्दरम्, वक्त्रम् मुखम् येन सः साचीकृतचारुवक्त्रः सन् यथावकाशम् == यथास्थानम् निनाय = नीतवान् ।
समासः-विलसति तच्छील: इति विलासी, रत्नैः अनुविद्धम् यत् अंगदमिति रत्नानुविद्धांगदम्, रत्नानुविद्धांगदस्य कोटिः, तत्र लग्नमिति तत्र रत्नानुविद्धांगदकोटिलग्नम्, अवकाशमनतिक्रम्य इति यथावकाशम् । न सचि इति असाचि, असाचि साचि संपद्यमानमिति साचीकृतम्, साचीकृतं चारु वक्त्रं येन सः साचीकृतचारुवक्त्रः ।
हिन्दी-दूसरे विलासी (शौकीन) राजा ने कन्धे से सरकी हुई और रत्नों से जड़ित भुजबन्ध के कोने में उलझी हुई, रत्नों की लम्बी माला को उठाकर कुछ तिरछा मुख करके फिर से कण्ठ में ठीक स्थान में रख दिया। ऐसा करके राजा ने यह संकेत किया कि मैं हमेशा तुमको गले का हार बनाए रहूँगा । इसके विपरीत इन्दुमती ने यह समझा कि इसके कन्धे में कुछ रोग कुबड़ आदि हैं, अतः उसे यह छिपा रहा है ।। १४ ॥
आकुञ्चिताग्राङ्गलिना ततोऽन्यः किञ्चित्समावजितनेत्रशोमः। तिर्यग्विसंसपिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥ १५ ॥ संजी०-आकुञ्चितेति । ततः पूर्वोक्तादन्योऽपरो राजा किञ्चित्समावर्जितनेत्रशोभ ईषदक्पिातितनेत्रशोभः सन् । आकुञ्चिता आभुग्ना अग्राङगुलयो यस्य तेन तिर्यग्विसंसपिण्यो नखप्रभा यस्य तेन च पादेन हैमं हिरण्मयं पीठं पादपीठं विलिलेख लिखितवान्। पादाङगुलीनामाकुञ्चनेन त्वं मत्समीपमागच्छति नपाभिप्रायः । भूमिविलेखकोऽयमपलक्षणक इतीन्दुमत्याशयः । भूमिविलेखनं तु लक्ष्मीविनाशहेतुः ॥ १५ ॥