Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
षष्ठः सर्गः
२९ निपातः । यदत्राह वृत्तिकार:-'जनीं वधू वहन्तीति जन्या जामातुर्वयस्याः' इति । यच्चामरः 'जन्याः स्निग्धा वरस्य ये' इति तत्सर्वमुपलक्षणार्थमित्यविरोधः। न चायमङ्गराजनिषेधो दृश्यदोषान्नापि द्रष्टृदोषादित्याह-नेत्यादिना। असावङ्गराज: काम्यः कमनीयो नेति न, किन्तु काम्य एवेत्यर्थः। सा कुमारी च सम्यग्द्रष्टुं विवेक्तुं न वेदेति न, वेदवेत्यर्थः। किन्तु लोको जनो भिन्न रुचिहि रुचिरमपि किञ्चित्कस्मैचिन्न रोचते । किं कुर्मो न हीच्छा नियन्तुं शक्यत इति भावः ॥३०॥
अन्वयः-अथ कुमारी अंगराजात् चक्षुः अवतार्य, जन्याम् याहि इति अवदत्, असौ काम्यः न (इति) न सा च सम्यक् द्रष्टुं न वेद (इति) न (किन्तु) हि लोकः भिन्नरूचिः, भवतीति शेषः ।
व्याख्या--अथ -सुनन्दावाक्यश्रवणानन्तरम्, कुमारी-इन्दुमती अंगानां = राजा-स्वामी इति अङ्गराजस्तस्मात् अंगराजात्, चक्षुः = दृष्टिम्, अवतार्य = अपनीय, जन्याम् = मातृसखीं सुनन्दाम्, याहि = गच्छ त्वमेनं परित्यज्य अग्रे गच्छेति, अवदत् अब्रवीत्। असौ= अंगराजः, काम्यः = कमनीयः मनोहरः, न=नहि, इति न, किन्तु सुन्दर एव, सा=इन्दुमती च, सम्यक् = सुष्ठु प्रकारेण, द्रष्टुम् = अवलोकयितुं विवेक्तुमित्यर्थः, न वेद =न जानाति इति न जानात्येव, किन्तु हि = यतः लोकः जनः भिन्ना=पथक् रुचिः=अभिलाषः यस्य स मिन्नरुचिः भवति, सर्वेषां जनानां भिन्ना-भिन्ना रुचि: जायते । यद्वस्तु एकस्मै जनाय रोचते, तद्वस्तु अन्यस्मै न रोचते इति किं कुर्मः कस्यापि जनस्य रुचिः नियन्तुं न शक्येति ।
समासः-अंगानाम् राजेति अंगराजस्तस्मात्, भिन्ना रुचिर्यस्य सः भिन्नरुचिः। लोक्यते असौ लोकः।
हिन्दी--इस प्रकार सुनन्दा के वचन सुनने के पश्चात् इन्दुमती ने अंगदेश के राजा पर से आँखें हटाकर सुनन्दा से कहा कि चलो, आगे बढ़ो। क्या वह राजा सुन्दर नहीं था, अथवा इन्दुमती ने ही उसे ठीक से नहीं देखा यह बात नहीं है। अर्थात् वह सुन्दर भी है और इन्दुमती ने भी ठीक से देखा है। किन्तु मनुष्य की अपनी-अपनी रुचि भिन्न होती है। किसी को कोई सुन्दर प्रतीत होता है और किसी को कोई ॥ ३० ॥