________________
षष्ठः सर्गः
३१
नोल्लिखित उष्णतेजाः सूर्य इव विभाति । अत्र मार्कण्डेय: - 'विश्वकर्मा त्वनुज्ञातः शाकद्वीपे विवस्वता । भ्रममारोप्य तत्तजः शातनायोपचक्रमे ।।' इति ॥ ३२ ॥
अन्वयः - उदग्रबाहुः, विशालवक्षाः, तनुवृत्तमध्यः अयम् अवन्तिनाथः, त्वष्ट्रा चक्रभ्रमम् आरोप्य, यत्नोल्लिखित: उष्णतेजाः इव विभाति ।
व्याख्या -- उदग्रौ दीर्घौ बाहू भुजौ यस्य स उदग्रबाहुः, विशालम् = विपुलम् विस्तीर्णमित्यर्थः, वक्षः=उरस्थलं यस्य स विशालवृक्षाः, तनुः कृशः, वृत्तः=वर्तुलः, मध्यः मध्यमः यस्य सः तनुवृत्तमध्यः, अयम् = पुरोवर्ती राजा, अवन्त्याः = उज्जयिन्याः नाथः = स्वामी अवन्तिनाथः अस्तीति शेषः, त्वष्ट्रा -- विश्वकर्मणा चक्रः = चक्राकारश्चासौ भ्रमः = शिल्पियंत्रम् इति चक्रभ्रमस्तम् चक्रभ्रमम् आरोप्य= आरोह्य, यत्नेन = प्रयत्नेन उल्लिखितः - शातनितः = घर्षितः इत्यर्थः, इति यत्नोल्लिखित: उष्णम् = तिग्मम् तेज: प्रतापो यस्य स उष्णतेजा: = सूर्यः इव = यथा आभाति = दीप्यते ।
:=
समासः - उदग्री बाहू यस्य स उदग्रबाहु: । विशालं वक्षः यस्य सः विशालवक्षाः, तनुः वृत्तश्च मध्यः यस्य स तनुवृत्तमध्यः, अवन्त्याः नाथः इति अवन्तिनाथः, चक्रश्चासौ भ्रमस्तं चक्रम्रमम् उष्णं तेजो यस्य स उष्णतेजाः, यत्नेन उल्लिखितः इति यत्नोल्लिखितः ।
1
हिन्दी - लम्बी भुजा और चौड़ी छाती तथा पतली गोल कमर वाला यह उज्जयनी का राजा है । जो कि सूर्य के समान ऐसा चमक रहा है मानो विश्वकर्मा ने अपने शान चढ़ाने वाले चक्र पर रखकर बड़े ही प्रत्यन से खराद किया हो । एक बार विश्वकर्मा की कन्या और सूर्यदेव की पत्नी संज्ञादेवी ने भगवान् सूर्य के तेज को न सह कर अपने पिता से प्रार्थना की, तब विश्वकर्मा ने सूर्य की अनुमति से सूर्य को अपने चक्र पर चढ़ाकर खराद दिया तब वे अधिक सुन्दर गोल-मटोल हो गए, और तेज भी सहने योग्य हो गया, ऐसी पौराणिक कथा है ॥ ३२ ॥ अस्य प्रयाणेषु समग्रशक्तेरग्रेस रैर्वाजिभिरुत्थितानि ।
कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥ ३३ ॥ संजी० - अस्येति । समग्रशक्तेः शक्तित्रयसम्पन्नस्यास्यावन्तिनाथस्य प्रयाणेषु जैत्रयात्रास्वग्रे सरैर्वाजिभिरश्वैरुत्थितानि रजांसि सामन्तानां समन्ताद्भवानां राज्ञां
1