________________
रघुवंशमहाकाव्ये हिन्दी-लम्बी भुजा वाले इस प्रतीप राजा की तुम अंकलक्ष्मी हो जाओ (इससे विवाह कर लो) अगर जलप्रवाह से मनोहर उस नर्मदा नदी को राजभवन के झरोखों से देखने की इच्छा करती हो, जो कि माहिष्मती नगरी के परकोटा रूपी नितम्ब की तगड़ी के समान लग रही है। अर्थात् नर्मदा माहिष्मती नगर के चारों ओर तमानी की तरह घूमी हुई है ।। ४३।।
तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभव । शरत्नमध्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्या: ॥४४॥
संजी.---तस्या इति । प्रकामं प्रियं प्रीतिकरं दर्शनं यस्य सोऽपि, दर्शनीयोऽपीत्यर्थः । स क्षितीशः । शारदा प्रमष्टाम्बुधरोपरोधो निरस्तमेघावरण, पर्या तकल: पूर्णकलः शशी नलिन्या इव ! तस्या इन्दुमत्या रुचये न बभूव, रुचि नाजीजनदित्यर्थः । लोको भिन्नरुचिरिति भावः ।।४४॥
अन्वयः-पकामम् प्रियदर्शनः अपि स क्षितीशः शरत्प्रमृष्टाम्बुधरोपरोधः पर्याप्तकलः शशी नलिन्याः इव तस्याः रुचर्य न बभूव ।
व्याख्या---प्रकामम् == यथेष्टम् , प्रियं = मनोहरं दर्शनम् अवलोकनं यस्य स प्रियदर्शनः, अपि सः = प्रतीपः क्षिते:--पथिव्याः ईशः-नाथः, इति क्षितीशः, शरदा = शरदृतुना प्रमृष्ट: - निरस्तः अम्बुधराणाम् = मेघानाम् उपरोधः = आवरणम् यस्य स शरत्प्रमृष्टाम्बुधरोपरोधः, पप्तिाः - पूर्णाः कलाः = अंशा: यस्य स पर्याप्तकल:, शशी == चन्द्रः, नलिन्या:- कमलिन्याः, इव -- यथा, तस्याःइन्दुमत्याः रुचये = सन्तोषाय, न बभूव = नहि जातः, तस्मिन् प्रतीचे राशि रुचि न कृतवती।
समासः---प्रियं दर्शनं यस्य स प्रियदर्शनः । क्षिते: ईशः क्षितीश: । शरदा प्रमृष्टः (अम्बूना धराणि तेषां) अम्बुधराणामुपरोधो यस्य स शरत्पमृष्टाम्बुधरोपरोधः । पर्याप्ताः कलाः यस्य स पर्याप्तकलः ।
हिन्दी-अतीव सुन्दर होते हुए भी वह राजा इन्दुमती को वैसे ही रुचिकर नहीं हुआ जैसे शरद् ऋतु के आगमन से हट गया है मेघरूपी आवरण जिसका ऐसा मनोहर शरत्पूणिमा चन्द्र नलिनी को नहीं भाता ॥४४॥
सा शूरसेनाधिपति सुषेणमुद्दिश्य लोकान्तरगीतकीर्तिम् । आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥४५॥