________________
रघुवंशमहाकाव्ये
हिन्दी --- शास्त्र और वृद्धों की सेवा करनेवाला ( अथवा शास्त्र में पारंगत अर्थात् ज्ञान वृद्धों की सेवा करने वाला) प्रतीप नाम से प्रसिद्ध यह राजा उन्हीं प्रताप कार्तवीर्य के वश में उत्पन्न हुआ है । इस राजा ने आश्रय के दुर्व्यसनादि दोष से उत्पन्न हुई लक्ष्मी स्वभाव से चञ्चला है' इस दुष्कीर्ति को धो दिया है, क्योंकि लक्ष्मी उसी पुरुष को छोड़कर चली जाती है जो कि दुर्व्यसनी व प्रमादी होते हैं । राजा प्रतीप में कोई दोष नहीं है । अतः इसके पास लक्ष्मी सदा निवास करती है मूर्ख लोग व्यर्थ में ही लक्ष्मी को चंचला कहते हैं । यही भाव है ॥४१॥
आयोधने कृष्णगति सहायमवाप्य यः क्षत्रियकालरात्रिम् |
धारां शितां रामपरश्वधस्य सम्भावयत्युत्पलपत्रसाराम् ॥ ४२ ॥ संजी० -- आयोधन इति । यः प्रतीप अयोधने युद्धे कृष्णगति कृष्णवर्मानसहायमवाप्य क्षत्रियाणां कालरात्रि, संहाररात्रिमित्यर्थः । रामपरश्वधस्य जामदग्न्यपरशोः । ' द्वयोः कुठारः स्वधितिः परशुश्च परश्वध:' इत्यमरः । शितां तीक्ष्णां धारां मुखम् । 'खड्गादीनां च निशितमुखे धारा प्रकीर्तिता' इति विश्वः । उत्पलपत्रस्य सार इव सारो यस्यास्तां तथाभूतां सम्भावयति मन्यते । एतन्नगरजिगीषयागता न्रिपून्स्वयमेव घक्ष्यामीति भगवता वैश्वानरेण दत्तवरोऽयं राजा । 'दह्यन्ते च तथागताः शत्रवः' इति भारते कथानुसन्धेया ।। ४२ ।।
४०
अन्वयः - यः आयोधने कृष्णगत सहायम् अवाप्य, क्षत्रियकालरात्रिम् रामपरश्वधस्य शितां धाराम् उत्पलपत्रसारां संभावयति ।
व्याख्या - यः प्रतीपः आयोधने = संग्रामे, कृष्णः = धूमः गतिः = गमनं यस्य स तम् कृष्णगतिम् = अग्निम् 'रोचिः शुष्मा कृष्णवर्त्मा' इत्यमरः, सहायं = सहायकम् अवाप्य == प्राप्य, क्षतात् = नाशात् त्रायते इति क्षत्रियास्तेषां क्षत्रियाणां =राजन्यानाम् कालरात्रिः = संहाररात्रिस्ताम् क्षत्रियकालरात्रिम् रामस्य = जामदग्न्यस्य परश्वधः = : परशुः कुठार इत्यर्थः, तस्य रामपरश्वधस्य शिताम् = तीक्ष्णाम् धाराम् = मुखम्, उत्पलस्य = कमलस्य पत्रम् = दलम् तस्य सार: इव सारः = बलं यस्याः सा, ताम् उत्पलपत्रसाराम् सम्भावयति = मन्यते ।
समास:-- आसमन्तात् युध्यन्ते (भटाः) यस्मिन् तस्मिन् आयोधने क्षतात् त्रायन्ते ति क्षत्रियास्तेषां कालरात्रिस्ताम् क्षत्रियकालरात्रिम्, रामस्य परश्वध इति राम