________________
षष्ठः सर्गः
४७ अन्वयः--ताात् त्रस्तेन यमुनौकसा कालियन विसष्टम किल वक्षस्थलव्यापिरुचं मणि दधानः यः सकौस्तुभं कृष्णम् हृपयति इव ॥ ४९ ॥
व्याख्या-ताात् गरुडात्, त्रस्तेन भीतेन, यमुना = कालिन्दी, ओक:= स्थानम् यस्य स तेन यमुनौकसा = यमुनानिवासिना कालियेन = नागेन, विसष्टम् दत्तम् लिलेतित्यैह्ये, वक्षःस्थलम् = उरःस्थलं व्याप्नोतीति सावक्षःस्थलव्यापिनी, रुक भा यस्य स तम वक्षःस्थलव्यापिरुचं मणिम् = रत्नम्, दधानम् = धारयन् यः = सुषेणः कौस्तुभेन सह वर्तते इति स कौस्तुभस्तं सकौस्तुभम् = कौस्तुभधारिणं कृष्णं = देवकीनन्दनम् विष्णुमित्यर्थः, हेपयति = ब्रीडयति इव ।
समासः-यमुना ओकः यस्य स तेन यमुनौकसा, वक्षःस्थलं व्याप्नोति या सा वक्षःस्थलव्यापिनी, वक्षःस्थलव्यापिनी रुक यस्य स तम् वक्षःस्थलव्यापिरुचम् । कौस्तुभेन सहितः सकौस्तुभस्तम् सकौस्तुभम् ।
हिन्दी-गरुड़ के डर से यमुना के जल में रहनेवाले कालियनाग ने प्रसन्न होकर एक मणि इस राजा को दी थी । ऐसा इतिहास प्रसिद्ध है। पूरे वक्षःस्थल में फैल जाती है, कान्ति जिसकी, ऐसी उस मणि को पहनकर यह राजा कौस्तुभ मणि को पहने हुए भगवान् कृष्ण को लज्जित सा कर देता है। अर्थात् इसकी मणि के सामने कौस्तुभमणि की शोभा फीकी पड़ जाती है ॥ ४९ ।।
संभाव्य भर्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये । वृन्दावने चैत्ररथादनूने निविश्यतां सुन्दरि ! यौवनश्रीः ।।५० ॥
संजी०-संभाव्येति । युवानममुं सुषेणं भर्तारं संभाव्य मत्वा । पतित्वेनाङ्गीकृत्येत्यर्थः। मृदुप्रवालोत्तरोपरिप्रस्तारितकोमलपल्लवा पुष्पशय्या यस्मिस्ततस्मिश्चैत्ररथात्कुबेरोद्यानादनूने वृन्दावने वृन्दावननामक उद्याने हे सुन्दरि ! यौवनश्रीयौं वनफलं निविंश्यतां मुज्यताम् ॥ ५० ॥
अन्वयः-युवानम् अनुम् भर्तारम् संभाव्य, मृदुप्रवालोत्तरपुष्पशय्ये मंत्ररथादनूने वृन्दावने हे सुन्दरि यौवनश्रीः निविश्यताम् ।
व्याख्या-युवानम् = तरुणम्, अमुम् = सुषेणम्, भर्तारम् = पतिम्, संभाव्यमत्वा पतित्वेन स्वीकृत्येत्यर्थः,पुष्पाणाम् =कुसुमानाम्, शय्या = पर्यंकः इतिपुष्पशय्या,