Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
षष्ठः सर्गः .
अन्वयः-ततः अन्यः किंचित्समावजितनेत्रशोभः सन् आकुञ्चिताग्रांगुलिना तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं पीठम् विलिलेख ॥१५॥
व्याख्या--तत: = तस्मात् == पूर्वोक्तात् अन्य: = अपरः राजा, किंचित् = ईषत समावर्जिता=अर्वाक्पातिता नेत्रयोः = चक्षुषोः शोभा= कान्ति: येन सः किंचित्समावजितनेत्रशोभ : सन्, आकुञ्चिता = ईषद्भुग्ना: अग्रांगुलयः = अंगुल्यग्रभागा: यस्य स तेन, आकुञ्चितापांगुलिना, तिर्यविसंसपिण्यः = साचिविसंसर्पणशीला: नखानां = पुनर्भवानाम्, शोभा: कान्तयः यस्य सः तेन तिर्यग्विसंसपिनखप्रमेण, पादेन=चरणेन हेम्नो विकारः इति हैम = सुवर्णनिर्मितम्, पीठम = पादासनम, विलिलेख = लिखितवान् ।। __समास:--किंचित् समावर्जिता नेत्राणां शोभा येन सः, किंचित्समावर्जितनेत्रशोभः, आकुञ्चिताः अग्रांगुलयो यस्य स तेन आकुञ्चिताग्रांगुलिना, निर्यक् विसंसर्पिण्यः नखानां प्रभा: यस्य स तेन, तिर्यग्विसंसर्पिनखप्रमेण । हेम्रो विकारः इति हैमम् तत् ।
हिन्दी-पहले से अतिरिक्त तीसरा राजा आँखे मटकाकर जिसकी अँगुलियाँ कुछ सिकोड़ ली गई हैं और जिसके नखों की किरणें तिरछी फैल रही हैं ऐसे पैर से सोने के पादपीठ को लिखने लगा, अर्थात् पीढे को कुरेदने लगा। इस संकेत से राजा इन्दुमती को अपने पास बुलाना चाहता है। और इसके विपरीत इन्दुमती का आशय यह है कि यह राजा तो जमीन खोदने वाला कुलक्षणी है, क्योंकि जमीन खोदना लक्ष्मी का विनाशकारक है ॥ १५ ॥
निवेश्य वामं भुजमासनार्धे तत्सन्निवेशादधिकोन्नतांसः ।
कश्चिद्विवृत्तत्रिकभिन्नहार: सुहृत्समाभाषणतत्परोऽभूत् ।।१६।। संजी०-निवेश्येति । कश्चिद्राजा वामं भुजमासनार्धे सिंहासनैकदेशे निवेश्य संस्थाप्य तत्सन्निवेशात्तस्य वामभुजस्य सन्निवेशात्संस्थापनादधिकोन्नतोऽसो वामांस एव यस्य स तथोक्तः सन् । विवृत्ते परावृत्ते त्रिके त्रिकप्रदेशे भिन्नहारो लुण्ठितहारः सन् । 'पृष्ठवंशाधरे त्रिकम्' इत्यमरः । सुहृत्समाभाषणतत्परोऽभूत् । वामपाववतिनैव मित्रेण सम्भाषितुं प्रवृत्त इत्यर्थः। अत एव विवृत्तत्रिकत्वं घटते । त्वया वामाङगे निवेशितया सहैवं वार्ता करिष्य इति नृपाभिप्रायः। परं दृष्ट्वा पराङमुखोऽयं न कार्यकर्तेतीन्दुमत्यभिप्रायः ॥ १६ ॥