________________
षष्ठः सर्गः
समास :- गृहीतः अनुनयो येन स गृहीतानुनयः । प्रत्यर्पितं स्वांगं यस्य स तं प्रत्यार्पितस्वांगम् । निर्गता आशा यस्मात् तत् मिराशम् इन्दुमत्यां निराशमिति इन्दुभतीनिराशम् ।
m
हिन्दी - रति की प्रार्थना स्वीकार कर शिवजी ने मानो फिर से जिसे जीवित कर दिया हो, ऐसे साक्षात् कामदेव के समान स्थित अज को देखनेवाले राजाओं का मन इन्दुमती को पाने में निराश हो गया ॥ २ ॥
वैदर्भनिर्दिष्टमसौ कुमार : क्लृप्तेन सोपानपथेन मञ्चम् । शिलाविभङ्गे मृगराजशावस्तु नगोत्सङ्गमिवारुरोह || ३ ||
सञ्जी० - वैदर्भेति । असौ कुमारी वैदर्भेण भोजेन निर्दिष्टं प्रदर्शितं मञ्चं पर्यकं क्लृप्तेन सुविहितेन सोपानपथेन । मृगराजशावः सिंहपोतः । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । शिलानां विभङ्गैर्भङगीभिस्तुङ्गमुन्नतं नगोत्सङगं शैलाग्रमिव आरुरोह ॥ ३ ॥
अन्वयः - असौ कुमारः वैदर्भनिदिष्टम् मञ्चम्, क्लृप्तेन सोपानपथेन मृगराजशाव:, शिलाविभंगः, तुङ्गम् नगोत्संगम्, इव, आरुरोह ।
व्याख्या - असौ=अजः कुमारः = रघुपुत्रः, वैदर्भेण = विदर्भराजेन, निर्दिष्टम् = दर्शितम्, मञ्चम् = पर्यङ्कम्, क्लृप्तेन = निर्मितेन, सोपानानाम् = आरोहणानाम्, पन्थाः = मार्गः, तेन सोपानपथेन मृगाणां = हरिणानां राजा स्वामी, तस्य शावः शिशु:, इति मृगराजशावः, शिलानाम् = पाषाणानां विभंगा = भंग्यः, तैः शिलाविभंगैः=शिलामार्गेणेत्यर्थः, नगस्य = पर्वतस्य, उतसंगम् = अग्रभागमिव, आरुरोह = आरूढवान् ।
"
,
समास :-वैदर्भेण निर्दिष्टः तं वैदर्भनिर्दिष्टम् । सोपानस्य पन्थास्तेन सोपानपथेन । शिलानां विभङ्गाः तैः शिलाविभङ्गैः । मृगाणां राजा मृगराजः तस्य शावः मृगराजशावः । नगस्य उत्सङ्गः तं नगोहाङगम् ।
हिन्दी - राजकुमार अज, भोजराज से बताए हुए, मञ्च पर, सुन्दर वनी सीढ़ियों के मार्ग से वैसे ही चढ़ गए, जिस प्रकार सिंह का बच्चा चट्टान पर पैर रखता हुआ ऊँचे पर्वत शिखर पर चढ़ जाता है || ३ ||
परार्ध्यवर्णास्तरणोपपन्नमासेदिवान्रत्नवदासनं सः । भूयिष्ठमासीदुपमेय कान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ॥ ४ ॥