________________
चतुर्थ: सर्ग:
११
अभि० - नीतिशास्त्ररहस्यवेत्तारो मन्त्रिप्रभृतयः रघोरग्रे धर्मयुद्धं कूटयुद्धं च प्रदर्शितवन्तः । परं रघुणा केवलं धर्मयुद्धपक्ष एवाश्रितो नतु कूटयुद्धपक्षः । हिन्दी - राजनीति शास्त्र के पारंगत विद्वानों ने रघु के प्रागे धर्मयुद्ध तथा छलयुद्ध दोनों ही पक्ष प्रस्तुत किये, परन्तु रघु ने केवल धर्मयुद्ध को ही अपनाया, कूटयुद्ध को नहीं ॥ १० ॥
पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गणाः ।
नवे तस्मिन्महीपाले सर्व नवमिवाभवत् ॥ ११ ॥
सञ्जीविनी - पृथिव्यादीनां पञ्चानां भूतानामपि गुणा गन्धादय उत्कर्षमतिशयं पुपुषुः । श्रत्रोत्प्रेक्षते । तस्मिन्रघो नाम नवे महीपाले सति सर्वं वस्तुजातं नवमिवाभवत्ः तदेव भूतजातमिदानीमपूर्वगुणयोगादपूर्वमिवाभवदिति भावः ॥ ११ ॥ अन्वयः–पञ्चानाम्, अपि, भूतानाम्, गुणाः, उत्कर्षम्, पुपुषुः तस्मिन्, नवे महीपाले, सति, सर्वम्, नवम्, इव प्रभवत् ।
वाच्य० - गुणैः उत्कर्ष: पुपुषे । सर्वरंग नवेन इव प्रभूयत ।
भूतानाम् = पृथिव्यप्तेजो
-
व्याख्या -- पञ्चानाम्= पञ्चसंख्यकानाम् श्रपि, वाय्वाकाशानाम्, गुणा: - गन्ध-रस-रूप- स्पर्श- शब्दाः, उत्कर्षम् = प्रतिशयम्, पुपुषुः = अपुष्णन्, तस्मिन् = रघौ, नवे = नूतने, महीं पालयतीति तस्मिन् महीपाले = राशि, सर्वम् = निखिलम्, वस्तु, नवम् = नूतनम्, इव= यथा, अभवत् =प्रभूत् । समा० - महीं पालयतीति महीपालः तस्मिन् महीपाले ।
अभि० - यदेव रघुः राजा श्रभवत् तदैव पृथिव्यप्तेजोवाय्वाकाशानां पञ्चमहाभूतानामपि गन्ध-रस - रूप स्पर्श - शब्दाख्या गुणा उत्कर्षमापुः । नवीने राज्ञि सर्वमपि वस्तु नवीनमिवाभवत् ।
हिन्दी - पृथिवी, जल, तेज, वायु, प्राकाश इन पाँच महाभूतों के गन्ध, रस रूप, स्पर्श तथा शब्द नामक गुरण पहले की अपेक्षा अधिक पुष्टि को प्राप्त हो गये । रघु के नवीन राजा होने पर सारी वस्तुएं नवीन-सी दिखलाई देने लगीं ॥ यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥ १२ ॥ सब्जीविनी - यथा चन्दयत्याह्लादयतीति चन्द्र इन्दुः । चदिधातोरीगादिको रप्रत्ययः । प्रह्लादवादा ह्लादकर रणादन्वर्थोऽनुगतार्थनामकोऽभूत् । यथा च