Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
रघुवंशमहाकाव्ये हिन्दी०--इन्द्र ने वर्षा सम्बन्धी धनुष उठाकर रख दिया। इधर रघु ने दिग्विजयार्थ प्रपना धनुष धारण किया । क्योंकि वे दोनों बारी-बारी से प्रजा का कार्य सिद्ध करने के लिये धनुर्धारण में तत्पर रहते थे ॥१६॥
पुण्डरीकातपत्रस्तं विकसत्काशचामरः ।
ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ।।१७।। सञ्जीविनी-पुण्डरीक सिताम्भोजमेवातपत्र यस्य स तथोक्तः । विकसन्ति काशानि काशाख्यतृण कुसुमान्येव चामराणि यस्य स तथोक्तः । ऋतु। शरहतुः पुण्डरीकनिभातपत्रम् काश निभचामरं तं रघु विडम्बयामासानुचकार । तस्य रघोः श्रियं पुनः शोभां तु न प्राप । 'शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरिव दृश्यते' इति शाश्वत:॥
अन्वयः-पुण्डरीकांतपत्रः, विकसत्काराचामरः, ऋतुः, तम्, विडम्बयामास, पुन:, तच्छ्यिम्, न, प्राप।
वाच्य-पुण्डरीकातन्त्रेण, विकसत्काशचामरेण, ऋतुना, सः विडम्बयाञ्चके, पुनः तच्छी:, न प्रापे ।
व्याख्या--पुण्डरीक = धवल कमलमेवातपत्र-त्रं यस्य तादृशः। विकसन्ति प्रस्फुरन्ति काशानि-तन्नामकतृणानि एव, चामराणि-बाल व्यजनानि यस्य तादृशः। ऋतु:शरदृतुः, तम्-रघुम्, विडम्बयामास अनुचकार । पुनः= किन्तु, तस्य = रघो: या श्री: = शोभा ताम्, न=नैव, प्राप = प्राप्नोत् ।
समा०--पुण्डरीक मेव प्रारपत्र यस्य सः पुण्डरीकातपत्रः। विकसन्ति च तानि काशानि च विकसकाशानि, विकसत्कालगन्येव चामराशि यस्य स विकसत्काशचामरः । तस्य श्रीः तच्छीः, तां तच्छ्यिम् ।
अभि०-शरहतुना सिताम्भोजरूपेण छत्रेण प्रस्फुरितकाशतृणरूपेण चामरसहितेन च रघोरनुकरणं कृतं किन्तु तस्य या शोभासीत् सा कथमपि न प्रापे ।
हिन्दी--- शरद् ने श्वेत कमलों के बाहुल्य से तथा खिले हुए काश कुसुमों से श्वेतच्छत्र एवं चामरवाले राजा रघु का अनुकरण किया परन्तु उसका शोभा न पा सका ॥१७॥
प्रसादसुमुखे तस्मिश्चन्द्रे च विशदप्रभे। तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः ॥१८॥