Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
४७
चतुर्थः सर्गः हिन्दी-पश्चिम समुद्र तट तक फैली हुई रघु की सेना से समुद्र, परशुराम के अस्त्रों से दूर किये जाने पर भी ऐसा मालूम पड़ता था जैसे कि सह्य पर्वत से मिला हुआ ही हो ॥५३॥
भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् ।
अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः ।। ५४ ॥ सञ्जीविनी-तेन रघुणा भयेनोत्सृष्टविभूषाणां परिहृतभूषणानां केरलयोषितां केरलांगनानामलकेषु केशेषु चमूरेणुः सेनारजश्चूर्णस्य कुंकुमादिरजसः प्रतिनिधीकृतः प्रत्यादेशीकृतः । तदभावे तत्सदृशः प्रतिनिधिः। एतेन योषितां पलायनं चमूनां च तदनुधावनं ध्वन्यते ॥५४॥
अन्वयः--तेन, भयोत्सृष्टविभूषाणाम् केरलयोषिताम्, अलकेषु, चमूरेणुः, चूर्णप्रतिनिधीकृतः ।
वाच्यः-सः चमूरेणुं चूर्णप्रतिनिधीकृतवान् ।
व्याख्या- तेन - रघुणा। भयेन-भीत्या, उत्सृष्टा परित्यक्ता, विभूषा - अलङ्करणस्वीकारो याभिस्तासां भयोत्सृष्टविभूपाणम् । केरलस्थ =केरलदेशस्य संबन्धिन्यः, योषितः = स्त्रियः इति केरलयोषितः, तासाम् । अलकेषु - चूर्णकुन्तलेषु, 'अलकाश्चूर्णकुन्तलाः' इत्यमरः । चम्वाः = सेनायाः रेणुः = धूलिः । चूर्णस्य = कुंकुमादिरजसः। प्रतिनिधीकृतः = स्थानापन्नीकृतः।
समा० भयेन उत्सृष्टाः विभूषाःयाभिस्ताः भयोत्सृष्टविभूषाः, तासां भयोत्सृष्टविभूषाणाम् । केरलानां योषितः केरलयोषितः, तासां केरलयोषिताम् । चम्वाः रेणुः चमूरेणुः । अप्रतिनिधिः प्रतिनिधिः सम्पद्यमानः कृतः प्रतिनिधीकृतः, चूर्णस्य प्रतिनिधीकृतः चूर्णप्रतिनिधीकृतः ।
अभि०-रघोः सकाशादुत्पन्नेन भयेन यदा केरलप्रान्तस्त्रियः आभूषणादिकं परित्यज्य पलायितास्तदा तासामलकेषु कुंकुमचूर्णलेपः सेनारेणुना संपादितः ।
हिन्दी-रघु के भय से केरल प्रान्त की स्त्रियाँ आभूषणादि का परित्याग करके भाग खड़ी हुईं । उस समय उनके केशों में कुंकुम चूर्ण का काम रघु की सेना की धूलि ने किया ॥५४॥
मुरलामारुतोद्धृतमगमत् कैतकं रजः। तद्योधवारबाणानामयत्नपटवासताम् ॥५५॥