________________
पञ्चमः सर्गः
अभि०-यथा काऽपि धीरा कन्या नूतनतारुण्येन मनोहरं कान्तं प्रति स्पृहावत्यपि पितुराशासपेक्षते तथैव तादृशमनोहरमजं प्रत्यभिलाषयुक्ताऽपि राज्यलक्ष्मीस्तस्पितुर्नृपस्य रघोराशामपेदते स्म ।
हिन्दी-विधिवत् गुरुजनों से सम्पूर्ण विद्यायें प्राप्त कर चुकने पर युवावस्था आ बाने से विशेष मनोहर अज के प्रति उत्कण्ठित होती हुई भी राज्यलक्ष्मी उसके वरण में रघु की आज्ञा की इस प्रकार प्रतीक्षा कर रही थी जैसे कि कोई घोर कन्या अभीप्सित वर के प्रति पिता की आज्ञा की प्रतीक्षा करती हो ॥३८॥
अथेश्वरेण क्रयकैशिकानां स्वयंवराथं स्वसुरिन्दुमत्याः।
आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥३९।। सञ्जीविनी-अथ स्वसुभगिन्या इन्दुमत्याः.स्वयंवरार्थ कुमारस्याजस्यानयने उत्सुकेन क्रयकैशिकानां विदर्भदेशानामीश्वरेण स्वामिना भोजेन राज्ञाप्तो हितो दूतो रघवे विसृष्टः प्रेषितः । क्रियामात्रयोगेऽपि चतुर्थी ॥३६॥
अन्वयः-अथ, ससुः, इन्दुमत्याः, स्वयंवरार्थम् , कुमारानयनोत्सुकेन, कथकैशिकानाम् , ईश्वरेण, भोजेन, आप्तः, दूतः, रघवे, विसृष्टः ।
वाच्य०-कुमारानयनोत्सुकः क्रयकैशिकानाम् ईश्वर: भोजः आप्त दृतं विसृष्टवान् ।
- व्याख्या-अथ अनन्तरम् । स्वसुः भगिन्याः। इन्दुमत्याः तन्नाम्न्याः । स्वयंवरायेति स्वयंवरार्थम् = स्वयंवरणार्थम् । कुमारस्य = राजकुमारस्याजस्य, आनयनम् आकारणम् इति कुमारनयनम् , कुमारानयने उत्सुक:उत्कण्ठितः, इति कुनारानयनोत्सुकः, तेन कुमारानयनोत्सुकेन । क्रयकशिकानाम् विदर्भदेशानाम् । ईश्वरेण स्वामिना । भोजेन तन्नाम्ना । आप्तः विश्वस्तः : दूतः चरः। रघवे-दिलीपसूनवे । विसृष्टः-प्रहितः ।
समा०-स्वयंवरायेति स्वयंवरार्थम् । कुमारस्यानयनं कुमारानयन मारा. नयन उत्सुक इति कुमारानयनोत्सुकः, तेन कुमारानयनोत्सुकेन ।
अभि०--अथ विदर्भदेशाधिपतिभोजः स्वस्वसुरिन्दुमत्याः स्वयंवरेऽजानयनाकाङ्क्षयकं विश्वस्तं सन्देशहरं रघुसमीपे प्रेषितवान् ।
हिन्दी०-इसी समय विदर्भदेश के राजा भोज ने अपनी बहिन इन्दुमती के स्वयवर में कुमार अज को बुलाने की इच्छा से एक विश्वस्त दूत राजा रघु के समीप मेजा ।। ३६ ॥