________________
रघुवंशमहाकाव्ये
स्तुति करने योग्य रघु की अच्छे प्रयंवाले स्तोत्रों से स्तुति करने लगी ॥ ६ ॥
मनुप्रभृतिभिर्मान्यैर्भुक्ता तथाप्यनन्यपूर्वे व
यद्यपि राजभिः । तस्मिन्नासीद्वसुन्धरा ॥७॥
सञ्जीविनी - वसुन्धरा मनुप्रभृतिभिर्मान्यैः पूज्यं राजभिर्भुक्ता यद्यपि । भुक्तैवेत्यर्थः । यद्यपीत्यवधारणे । 'श्रप्यर्थे यदिवार्थे स्यात्' इति केशवः । तथापि तस्मिन्राज्ञि । अन्यः पूर्वो यस्याः सान्यपूर्वा अन्यपूर्वा न भवतीत्यनन्यपूर्वा प्रनन्योपभुक्तदासीत् । तत्प्रथमपतिकेवानुरक्तवतीत्यर्थः ॥ ७ ॥
अन्वयः - वसुन्धरा, मनुप्रभृतिभिः, मान्यैः, राजभि:, यद्यपि भुक्ता, तथापि तस्मिन् ग्रनन्यपूर्वा, इव श्रासीत् ।
5
वाच्य० - वसुन्धरां मनुप्रभृतयः मान्याः राजानः यद्यपि, भुक्तवन्तः, तथापि तथा तस्मिन् अनन्यपूर्वय! इव प्रभूयत ।
व्याख्या - वसूनि धरतीति वसुन्धरा = पृथिवी, मनुः प्रभृतिरादिर्येषां तादृशेः = वैवस्वतमन्वादिभिः मान्यः प्रतिष्ठितैः, राजभिः == नृपैः, यद्यपि, भुक्ता== उपभुक्ता, तथापि तस्मिन् = रघी, न प्रन्यः पूर्वी यस्यास्तादृशी श्रनन्योपभुक्ता इव = यथा, श्रासीत् प्रभूत् ।
क
समा० - मनुः प्रभृतिः येषां ते मनुप्रभृतयः तैः मनुप्रभृतिभिः । मानितु योग्याः मान्याः तैः मान्यैः । श्रन्यः पूर्वो यस्याः सा श्रन्यपूर्वा, अन्य पूर्वा न भवतीति अनन्यपूर्वा ।
अभि० -- यद्यपि रघोः पूर्वमन्येऽपि मनुप्रभृतयो राजानः पृथिव्या उपभोगं चक्रुः, तथापि रघो राज्ये प्रशासति सा प्रभुक्तपूर्वाऽतिनवा प्रतिभाति स्म ।
हिन्दी - यद्यपि पृथ्वी का पहले भी मनु आदि मान्य राजाओं ने भलीभाँति उपभोग किया था, तथापि रघु को पाकर वह उसमें इस प्रकार अनुरक्त हुई कि जैसे वह अन्य से न भोगी गई हो ॥ ७ ॥
स हि सर्वस्य लोकस्य युक्तदण्डतया मनः । आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥ ८ ॥ सञ्जीवनी - हि यस्मात्कारणात्स रघुर्युक्तदण्डतया यथापराधदण्डतया सर्वस्य लोकस्य मन प्राददे जहार । क इव । प्रतिशीतोऽत्युष्णो वा न भवतीति नातिशीतोष्णः । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । दक्षिणी दक्षिण दिग्भवो