________________
१३
- २२ ]
१. पीठिका 19 ) न कवित्वाभिमानेन न कीर्तिप्रसरेच्छया।
कृतिः किं तु मदीयेयं स्वबोधायैव केवलम् ॥१६ 20 ) अयं जागर्ति मोक्षाय वेत्ति विद्या भ्रमं त्यजेत् ।
आदत्ते शमसाम्राज्यं स्वतत्त्वाभिमुखीकृतः ॥२० किं च21 ) न हि केनाप्युपायेन जन्मजातङ्कसंभवा ।
विषयेषु महातृष्णा पश्य पुंसां प्रशाम्यति ॥२१ 22 ) तस्याः प्रशान्तये पूज्यैः प्रतीकारः प्रदर्शितः ।
जगज्जन्तूपकाराय तस्मिन्नस्यावधीरणा ॥२२ 19 ) न कवित्वाभि-इयं मदीया कृतिः शास्त्र केवलं किंतु स्वबोधायैव स्वज्ञानायेव भवति। कवित्वाभिमानेन कृतिर्न वर्तते । क्रियाध्याहारः पदद्वये योज्यः । पुनः कीर्तिप्रसरेच्छयापि न, इति तात्पर्यार्थः ॥१९॥ अथात्मस्वरूपाभिमुखी मुक्तस्तदेव दर्शयति ।
20 ) अयं जागति-अयमात्मा स्वतत्त्वाभिमुखीकृतः संमुखीकृतः मोक्षाय जागति । पुनस्तादृशः सन् विद्यां ज्ञानं वेत्ति । पुनः स्वतत्त्वाभिमुखीकृतः भ्रमं मिथ्याज्ञानं त्यजेत् । पुनस्तादृशः सन् शमसाम्राज्यं उपशमसौराज्यम् आदत्ते गलाति ।।२०।। अथ तुष्णाया दुःसाध्यत्वमाह । कि च।
21 ) न हि-कश्चित् कंचन वक्ति । भो त्वं पश्य । पुंसां महातृष्णा विषयेषु केनाप्युपायेन न प्रशाम्यति । कथंभूता महातृष्णा। जन्मजातङ्कसंभवा । जन्मजो योऽसौ आतङ्कः तस्मात् संभवा उत्पन्ना ॥२१॥ यस्याः पूवाचायोक्त प्रतीकारमाह ।
22 ) तस्याः प्रशान्तये-तस्याः तृष्णायाः प्रशान्तये उपशमाय पूज्यरकलङ्काचार्यैः सर्वज्ञैर्वा प्रतीकारः प्रकर्षेण दर्शितः । किमर्थम् । जगज्जन्तूपकाराय। जगज्जनहिताय । तस्मिन् प्रतीकारे
मैं जो यह ज्ञानार्णवकी रचना कर रहा हूँ वह न तो कवित्वशक्तिके अभिमानवश कर रहा हूँ और न कीर्तिके विस्तारकी इच्छासे भी कर रहा हूँ, किन्तु केवल अपने आत्मबोधके लिए ही कर रहा हूँ |१९||
इसका कारण यह है कि आत्मस्वरूपके अभिमुख किया गया यह जीव मोक्षके लिए जागता रहता है-उसकी ओर निरन्तर ध्यान रहता है, वह भ्रमको छोड़कर विद्याको जानता है-विपरीत अभिनिवेशको छोड़कर सम्यगज्ञानको प्राप्त कर लेता है, तथा शान्तिरूप साम्राज्यको ग्रहण करता है ॥२०॥
इसके अतिरिक्त, देखो! जीवोंकी संसाररूप संतापसे जो इन्द्रियविषयोंमें महती तृष्णा-अतिशय आसक्ति उत्पन्न होती है वह अन्य किसी भी उपायसे शान्त नहीं हो सकती है ॥२१॥
उक्त तृष्णाको शान्त करनेके लिए संसारी जीवोंके उपकारार्थ पूज्य पुरुषोंने-जिनेन्द्र एवं गणधरादिने-प्रतीकार बतलाया है उसके विषयमें इस जीवकी अनादरबुद्धि रहती है ॥२२॥ १. Only in P M F X Y किं च । २. B J वधारणा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org