________________
4
–२८ ]
३३. संस्थानविचयः
1713 ) घ्रायन्ते पूतयो गन्धाः स्पृश्यन्ते' वज्रकण्टकाः । जलानि पूतिगन्धीनि नद्यो ऽसृङ्मांसकर्दमाः || २५ 1714 ) चिन्तयन्ति तदालोक्य रौद्रमत्यन्तशङ्किताः ।
hi भूमिः क्व चानीताः के वयं केन कर्मणा || २६ 1715 ) ततो विदुर्विभङ्गात्स्वं पतितं व सागरे । कर्मणात्यन्तरौद्रेण हिंसाद्यारम्भजन्मना ||२७ 1716 ) ततः प्रादुर्भवत्युच्चैः पश्चात्तापो ऽपिं दुःसहः 1 दहन्नविरतं चेतो वज्राग्निरिव निर्दयः ॥ २८
गोमायुर्पशार्दूलमण्डलाः दृश्यन्ते । गृध्रः प्रसिद्धः । गोमायुः गोधा । सर्पशार्दूलो सुगमौ । मण्डल: श्वा | इति सूत्रार्थं ||२४|| अथ पुनस्तदेवाह ।
1713 ) घ्रायन्ते - प्रायन्ते पूतयो गन्धाः । वज्रकण्टकाः [ स्पृश्यन्ते । ] जलानि पूतिगन्धीनि । नद्यः असृङ्मांसकर्दमाः रुधिरमांसपङ्काः । इति सूत्रार्थः ||२५|| अथ पुनरेतदेवाह ।
५६५
1714 ) चिन्तयन्ति - रौद्रमन्यमालोक्य तत् चिन्तयन्ति न शङ्किताः । इयं का भूमिः । च पुनः । क्वानीताः, के वयं केन कर्मणा । इति सूत्रार्थः ||२६|| [ अन्ते ते आत्मानं नरके पतितं जानन्ति इत्याह । ]
1715 ) ततो विदुः - ततस्तस्मात् विदुर्विभङ्गात् अवध्यज्ञानात् श्वभ्रसागरे स्वं पतितं विदुः । अत्यन्तरौद्रेण कर्मणा हिंसाद्यारम्भजन्मना । इति सूत्रार्थः ||२७|| अथ तेषां चिन्तनमाह ।
(1716 ) ततः प्रादुर्भवति - ततः पश्चात्तापो ऽतिदुःसह : * प्रादुर्भवति । उच्चैर्यथा । अविरतं निरन्तरं चेतो दहन् । वज्राग्निरिव निर्दयः । इति सूत्रार्थः ||२८|| अथ पुनरेतदेवाह ।
वहाँपर अतिशय दुर्गन्ध सूँघनेको मिलता है, वज्रमय काँटोंका स्पर्श होता है, सड़ी दुर्गन्धयुक्त पानी पीनेको मिलता है, तथा नदियाँ रुधिर, मांस व कीचड़से व्याप्त उपलब्ध होती हैं ||२५||
वहाँ के उस भयानक दृश्यको देखकर अतिशय भयभीत हुए ये नारकी विचार करते हैं कि यह पृथिवी कौन-सी है और हम कौन हैं तथा किस कर्मसे कहाँ लाये गये हैं ||२६|| तत्पश्चात् वे विभंगज्ञानके आश्रयसे यह जान लेते हैं कि हम हिंसादिके आरम्भसे उत्पन्न हुए अतिशय दारुण कर्मसे इस नरकरूप समुद्र में गिराये गये हैं ||२७||
तत्पश्चात् उन्हें निर्दय वनाग्निके समान निरन्तर चित्तको जलानेवाला अधिक दुःसह पश्चात्ताप उत्पन्न होता है ||२८||
१. P स्पृशन्ते, S स्पश्यन्ते । २. T गन्धानि । तापोऽति । ५. N निर्दयं ।
Jain Education International
३. M वा for चा । ४. All others except P
For Private & Personal Use Only
www.jainelibrary.org