________________
६५५
३६. रूपस्थध्यानम् 2072) साक्षानिर्विषयं कृत्वा साक्षं चेतः से संयमी ।
नियोजयत्यविश्रान्तं तस्मिन्नेव जगद्गुरौ ॥४० 2073) तद्गुणग्रामसंलीनमानसस्तद्गताशयः ।
तद्भावभावितो योगी तन्मयत्वं प्रपद्यते ॥४१॥ तथा हि2074) यदाभ्यासवशात्तस्य तन्मयत्वं प्रजायते ।
तदात्मानमसौ ध्यानी सर्वशीभूतमीक्षते ॥४२ 2075) एष देवः स सर्वज्ञः सोऽहं तद्रपतां गतः ।
तस्मात् स एव नान्यो ऽहं विश्वदर्शीति मन्यते ।।४३ 2072) साक्षात्-स संयमी साक्षात् सेन्द्रियं चेतः साक्षात् निर्विषयं कृत्वा तस्मिन्नेव आत्मनि जगदगरौ जगद्धितोपदेशके अविश्रान्तं निरन्तरं नियोजयति । इति सूत्रार्थः ॥४०|| अथ तन्मयत्वोपायमाह।
____2073) तद्गुण-योगी तद्गुणग्रामसंलीनमानसः आत्मानुभवादि-गुणव्याप्तमानसः। पुनः कीदृशः। तद्भावभावितः आत्मभावभावितः। तन्मयत्वम् आत्मैकरूपत्वं प्रपद्यते। इति सूत्रार्थः ॥४१॥ अथ पुनराह । तथा हि।
2074) यदाभ्यास-यदा अभ्यासवशात् तस्य आत्मनः तन्मयत्वं प्रपद्यते तदा आत्मानं सर्वज्ञीभूतम् ईक्षते असौ ध्यानी। इति सूत्रार्थः ।।४२।। तदेवाह ।
___2075) एष देवः-विश्वदर्शी इति मन्यते । सो ऽहं तद्रूपतां गतः । इति सूत्रार्थः ॥४३॥ तदेव दृष्टान्तेनाह।
इसके अतिरिक्त-वह योगी इन्द्रियोंके साथ-साथ मनको भी साक्षात् अन्य विषयोंसे हटाकर निरन्तर लोकके स्वामीभूत उस सर्वज्ञ परमात्माके विषयमें ही नियुक्त करता है ॥४०॥
जिस योगीका मन उस सर्वज्ञ देवके गुणसमूहमें लीन हुआ है तथा जो अपने हृदयको उसीके लिए अर्पित कर चुका है वह उसकी भावनासे संस्कृत होकर उसीके स्वरूपको पा लेता है ॥४१॥
जिस आत्माके ध्यानके अभ्यासवश योगीके तन्मयता-सर्वज्ञरूपता-उत्पन्न होती है उस आत्माको वह योगी स्वयं सर्वज्ञस्वरूप देखता है ॥४२॥
यह देव (आत्मा) ही वह सर्वज्ञ है और वही मैं उस सर्वज्ञरूपताको प्राप्त हूँ। इसलिए वही सर्वज्ञ मैं हूँ, अन्य नहीं हूँ; ऐसा वह योगी मानता है ।।४३।। कहा भी है१. M SJX Y R सुसं। २. M N तद्गुणा, L मानसस्तु जिताशयः । ३. P M तथाहि । ४. J प्रपद्यते । ५. LS F Y R ज्ञानी। ६.४ मिष्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org