________________
६७४
ज्ञानार्णवः
2134 ) सर्वद्वन्द्वविनिर्मुक्तं सर्वाभ्युदयभूषितम् । नित्योत्सवयुतं दिव्यं दिवि सौख्यं दिवौकसाम् ||२० 2135) प्रति समयमुदीर्णं स्वर्गसाम्राज्यरूढं
सकलविषयबीजं स्वान्तदत्ताभिनन्दम् । ललितयुवतिलीलालिङ्गनादिप्रसूतं सुखमतुलमुदारं स्वर्गिणो निर्विशन्ति ॥ २१ 2136 ) सर्वाभिमतभावोत्थं निर्विघ्नं स्वःसुखामृतम् । सेवमाना न बुध्यन्ते गतं जन्म दिवौकसः || २२ 2137 ) तस्माच्च्युत्वा त्रिदिवपटलाद्दिव्यभोगावसाने कुर्वन्त्यस्यां भुवि नरनुते पुण्यवंशे ऽवतारम् |
2134 ) सर्वद्वन्द्व दिवौकसां देवानाम् । दिवि स्वर्गे । दिव्यं चारु । सौख्यम् । वर्तत इति गम्यम् । शेषं सुगमम् । इति सूत्रार्थः ||२०|| अथ पुनः स्वर्गिणां सुखमाह । मालिनी छन्दः । 2135) प्रतिसमयम् - स्वगणो देवाः सुखम् अतुलं निरुपमम् । उदारं प्रधानम् । निर्विशन्ति भुञ्जते । चित्तदत्तानन्दम् । शेषं सुगमम् । इति सूत्रार्थः ॥ २१ ॥ अथ तत्रस्थाः स्वर्गं तत्काले न जानन्ति तदाह ।
[ ३८.२०
2136 ) सर्वाभिमत - दिवौकसो देवाः स्वःसुखामृतं स्वर्गसुखपीयूषं सेवमानाः गतं जन्म न बुध्यन्ते । निर्विघ्नम् । पुनः कीदृशम् । सर्वाभिमतभावोत्थम् । सुगमम् । इति सूत्रार्थः ||२२|| अथ पुनराह ।
2137 ) तस्माच्च्युत्वा - तस्मात् त्रिदिवपटलाच्च्युत्वा दिव्यभोगावसाने भोगप्रान्ते । अस्यां भुवि भूमी, पुण्यवंशे पुण्योपयुक्ते वंशे अवतारं कुर्वन्ति । कीदृशे वंशे । नरनुते मुख्यनमस्कृते । तत्र
स्वर्ग में देवोंको जो दिव्य सुख प्राप्त होता है वह सब प्रकारकी आकुलतासे रहित, समस्त अभ्युदय ( अभिवृद्धि ) से परिपूर्ण और निरन्तर प्रवर्तमान उत्सवोंसे युक्त होता है ||२०||
Jain Education International
स्वर्गवासी देव निरन्तर उदित रहनेवाले ( अविच्छिन्न ), स्वर्गके एकछत्र राज्यसे प्रसिद्ध, समस्त विषयोंके उपभोगसे उत्पन्न, मनको आनन्ददायक तथा सुन्दर युवती स्त्रियोंके लीलायुक्त आलिंगन आदिसे प्रादुर्भूत हुए अनुपम महान् सुखको भोगते हैं ||२१|| वे विमानवासी देव समस्त अभीष्ट पदार्थोंसे उत्पन्न हुए बाधारहित स्वर्गीय सुखरूप अमृतका उपभोग करते हुए गये हुए जन्मको — व्यतीत हुए सागरोपम कालको - नहीं जानते हैं ||२२||
इस प्रकार उस स्वर्गीय दिव्य सुखको भोगकर अन्त में वे देव उस स्वर्गपटलसे च्युत होते हुए इस पृथिवीपर मनुष्यों द्वारा नमस्कृत पवित्र कुलमें अवतार लेते हैं और वहाँ
१. N T सुखमखिल । २. Ls TJ X Y R सेव्य । ३. M वंशावतारं ।
For Private & Personal Use Only
www.jainelibrary.org