Book Title: Gyanarnav
Author(s): Shubhachandra Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 790
________________ अस्यां श्रीमन्नपुर्या श्रीमदर्हदे [द्दे ] वचरणकमलचञ्चरीकः सुजनजनहृदयपरमानन्दकन्दलोकन्दः श्री-माथुरान्वयसमुद्रचन्द्रायमानो भव्यात्मा परमश्रावकः श्री-नेमिचन्द्रो नामाभूत् । तस्याखिलविज्ञानकलाकौशलशालिनी सती पतिव्रतादिगुणगणालंकारभूषितशरीरा निजमनोवृत्तिरिवाव्यभिचारिणी स्वर्णा नाम धर्मपत्नी संजाता। अथ तयोः समासादितधर्मार्थकामफलयोः स्वकुलकुमुदवनचन्द्रलेखा निजवंशवैजयन्ती सर्वलक्षणालंकृतशरीरा जाहिणि नाम पुत्रिका समुत्पन्ना। ततो गोकर्णश्रीचन्द्रौ सुतौ जातौ मनोरमौ। गुणरत्नाकरौ भव्यौ रामलक्ष्मणसन्निभो । सा पुत्री नेमिचन्द्रस्य जिनशासनवत्सला। विवेकविनयोपेता सम्यग्दर्शनलांछिता ।। ज्ञात्वा संसारवैचित्र्यं फल्गुतां च नृजन्मनः । तपसे निरगात् गेहात् शान्तचित्ता सुसंयता ।। बान्धवैर्वार्यमाणापि प्रणतैः शास्त्रलोचनैः । मनागपि मनो यस्या न प्रेम्णा कश्मलीकृतम् ।। गृहीतं मुनिपादान्ते तया संयतिकाव्रतम् । स्वीकृतं च मनःशुद्धया रत्नत्रयमखण्डितम् ।। तया विरक्तयात्यन्तं नवे वयसि यौवने । आरब्धं तत्तपः कतु" यत्सतां साध्विति स्तुतम् ।। यमव्रततपोद्योगैः स्वाध्यायध्यानसंयमैः । कायक्लेशाद्यनुष्ठानैर्गृहीतं जन्मनः फलम् ।। तपोभिर्दुष्करैनित्यं बाह्यान्तर्भेदलक्षणैः । कषायरिपुभिः सार्धं निःशेषं शोषितं वपुः ।। विनयाचारसंपत्त्या संघः सर्वो ऽप्युपासितः । वैयावृत्त्योद्यमात् शश्वत् कीतिर्नीता दिगन्तरम् ॥ किमियं भारती देवी किमियं शासनदेवता। दृष्टपूर्वैरपि प्रायः पौरैरिति वितय॑ते॥ तया कर्मक्षयस्यार्थं ध्यानाध्ययनशालिने । तप:श्रुतनिधानाय तत्त्वज्ञाय महात्मने ।। रागादिरिपुमल्लाय शुभचन्द्राय योगिने । लिखाप्य पुस्तकं दत्तमिदं ज्ञानार्णवाभिधम् ।। संवत् १२८४ वर्षे वैशाखसुदि १० शुक्रे गोमण्डले दिगम्बरराजकुलसहस्रकीर्तिस्यार्थे पं. केशरिसुतवीसलेन लिखितमिति ।। ज्ञानार्णवपु ॥ स्तं ॥ आ २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828