________________
अस्यां श्रीमन्नपुर्या श्रीमदर्हदे [द्दे ] वचरणकमलचञ्चरीकः सुजनजनहृदयपरमानन्दकन्दलोकन्दः श्री-माथुरान्वयसमुद्रचन्द्रायमानो भव्यात्मा परमश्रावकः श्री-नेमिचन्द्रो नामाभूत् । तस्याखिलविज्ञानकलाकौशलशालिनी सती पतिव्रतादिगुणगणालंकारभूषितशरीरा निजमनोवृत्तिरिवाव्यभिचारिणी स्वर्णा नाम धर्मपत्नी संजाता। अथ तयोः समासादितधर्मार्थकामफलयोः स्वकुलकुमुदवनचन्द्रलेखा निजवंशवैजयन्ती सर्वलक्षणालंकृतशरीरा जाहिणि नाम पुत्रिका समुत्पन्ना।
ततो गोकर्णश्रीचन्द्रौ सुतौ जातौ मनोरमौ। गुणरत्नाकरौ भव्यौ रामलक्ष्मणसन्निभो । सा पुत्री नेमिचन्द्रस्य जिनशासनवत्सला। विवेकविनयोपेता सम्यग्दर्शनलांछिता ।। ज्ञात्वा संसारवैचित्र्यं फल्गुतां च नृजन्मनः । तपसे निरगात् गेहात् शान्तचित्ता सुसंयता ।। बान्धवैर्वार्यमाणापि प्रणतैः शास्त्रलोचनैः । मनागपि मनो यस्या न प्रेम्णा कश्मलीकृतम् ।। गृहीतं मुनिपादान्ते तया संयतिकाव्रतम् । स्वीकृतं च मनःशुद्धया रत्नत्रयमखण्डितम् ।। तया विरक्तयात्यन्तं नवे वयसि यौवने । आरब्धं तत्तपः कतु" यत्सतां साध्विति स्तुतम् ।। यमव्रततपोद्योगैः स्वाध्यायध्यानसंयमैः । कायक्लेशाद्यनुष्ठानैर्गृहीतं जन्मनः फलम् ।। तपोभिर्दुष्करैनित्यं बाह्यान्तर्भेदलक्षणैः । कषायरिपुभिः सार्धं निःशेषं शोषितं वपुः ।। विनयाचारसंपत्त्या संघः सर्वो ऽप्युपासितः । वैयावृत्त्योद्यमात् शश्वत् कीतिर्नीता दिगन्तरम् ॥ किमियं भारती देवी किमियं शासनदेवता। दृष्टपूर्वैरपि प्रायः पौरैरिति वितय॑ते॥ तया कर्मक्षयस्यार्थं ध्यानाध्ययनशालिने । तप:श्रुतनिधानाय तत्त्वज्ञाय महात्मने ।। रागादिरिपुमल्लाय शुभचन्द्राय योगिने ।
लिखाप्य पुस्तकं दत्तमिदं ज्ञानार्णवाभिधम् ।। संवत् १२८४ वर्षे वैशाखसुदि १० शुक्रे गोमण्डले दिगम्बरराजकुलसहस्रकीर्तिस्यार्थे
पं. केशरिसुतवीसलेन लिखितमिति ।। ज्ञानार्णवपु ॥ स्तं ॥ आ २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org