________________
६७८
ज्ञानार्णवः
[३९.४*२2145 ) 'शुचिगुणयोगाच्छुक्लं कषायरजसः क्षयादुपशमाद्वा ।
वैडूर्यमणिशिखा इव सुनिर्मलं निष्प्रकम्पं च ॥४२॥ इति । 2146 ) कषायमलविश्लेषात् प्रशमाद्वा प्रसूयते ।
यतः पुंसामतस्तज्ज्ञैः शुक्लमुक्तं निरुक्तिकम् ॥५ 2147 ) छद्मस्थयोगिनामा द्वे शुक्ले परिकीर्तिते ।
द्वे चान्ते क्षीणदोषाणां केवलज्ञानचक्षुषाम् ॥६ 2148 ) श्रुतज्ञानार्थसंबन्धाच्छ तालम्बनपूर्वके ।
पूर्वे परे जिनेन्द्रस्य निःशेषालम्बनच्युते ।।७ 2145) शुचिगुण-शुक्लं कषायरजसः पापक्षयात् उपशमात् वा। कस्मात् । शुचिगुणयोगात् । सुगमम् । वैडूर्यमणिम् इव। शेषं सुगमम् । इति सूत्रार्थः ।।४२२।। अथ पुनराह ।
2146) कषायमल-यतः कारणात् कषायमलविश्लेषात् तत्संबन्धाभावात् । वा अथवा । प्रशमात् कषायोपशमात् । पुंसाम् । प्रसूयते उत्पद्यते । तज्जैः शुक्लम् । अतः कारणात् निरुक्तिकम् उक्तम् । इति सूत्रार्थः ।।५।। अथ तद्भेदविचारमाह ।
___2147) छद्मस्थ-[क्षीणदोषाणां नष्टदोषाणाम् । केवलज्ञानचक्षुषां केवलज्ञानमेव चक्षुः . येषां तेषाम् । अन्यत्सुगमम् ॥६॥] अथ पुनर्विशेषमाह।
___2148) श्रुतज्ञानार्थ-पूर्वे द्वे ध्याने श्रुतालम्बनपूर्वके। तयोः श्रुतमेवावलम्बनमिति भावः। जिनेन्द्रस्य अपरे द्वे निःशेषालम्बनच्युते । अपरयोः आलम्बनं नास्ति । इति सूत्रार्थः ॥७॥ अथ पुनस्तद्भेदस्वरूपमाह।
कषायरूप धूलिके क्षयसे अथवा उपशमसे वैडूर्यमणिकी-शिखाके समान जो अतिशय निर्मल और स्थिर मनकी एकाग्र प्रवृत्ति होती है उसका नाम शुक्लध्यान है । उसे पवित्रतारूप गुणके कारण शुक्ल नामसे कहा जाता है ॥४*२।।
___ यह ध्यान चूंकि कषायरूप मैलके सर्वथा पृथक् हो जानेपर अथवा उसके उपशान्त हो जानेपर पुरुषोंके उत्पन्न होता है, इसीलिए ध्यानशास्त्रके ज्ञाता महर्षि उसे शुक्ल इस सार्थक नामसे कहते हैं ।।५।।
आगे वर्णित चार ध्यानोंमें-से आदिके दो (पृथक्त्ववितर्क व एकत्ववितर्क) शुक्लध्यान छद्म योगियोंके तथा अन्तके दो (सूक्ष्म क्रियाप्रतिपाती और व्युपरतक्रियानिवृत्ति) अठारह दोषोंसे रहित केवलज्ञानियोंके होते हैं ।।६।।
पूर्व के दो शुक्लध्यान श्रुतज्ञानके विषयके सम्बन्धसे श्रुतके आश्रयसे होते हैं, परन्तु अन्तके दो ध्यान जिनेन्द्र के सब प्रकारके आलम्बनसे रहित होते हैं ।।७।।
१. M LS उक्तं च । २. J Y शिखामिव । ३. P M इति । ४. SJ X Y R द्वे तु शुक्ले प्रकीर्तिते । ५. M N S द्वे चान्त्ये, L द्वे वा तत क्षीण । ६. M N पूर्वकम्....च्युतेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org