Book Title: Gyanarnav
Author(s): Shubhachandra Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 781
________________ ६९२ ज्ञानार्णवः 2198 ) तदासौ निर्मलः शान्तो निष्कलङ्को निरामयः । जन्मजानेक दुर्वारबन्धव्यसनविच्युतः ||५० 2199) सिद्धात्मा सुप्रसिद्धात्मा निष्पन्नात्मा निरञ्जनः । निष्क्रियो निष्कलः शुद्धो निर्विकल्पो ऽतिनिश्चलः ॥ ५१ 2200) आविर्भूतैयथाख्यातचरणो ऽनन्तवीर्यतः । परां शुद्धि परिप्राप्तो दृष्टेर्बोधस्य चात्मनः ॥ ५२ 2201) अयोगी त्यक्तयोगत्वात् केवलो ऽत्यन्तनिर्वृतः । साधितात्मस्वभावश्च परमेष्ठी परः प्रभुः || ५३ 2202) लघुपश्चाक्षरोच्चारकालं स्थित्वा ततः परम् । से स्वभावाद्व्रजत्यूर्ध्वं शुद्धात्मा वीतबन्धनः || ५४ १० 2198) तदासौ – [ जन्मजानेकदुर्वारबन्धव्यसनविच्युतः । जन्मनः जाताः अनेके दुर्वारा: ये बन्धाः त एव तेषां वा व्यसनेभ्यः विच्युतः मुक्तः । अन्यत्सुगमम् ॥ ५० ॥ ] अथ पुनस्तमेवाह । 2199 ) सिद्धात्मा - [ निरञ्जनः कलंकरहितः । निर्विकल्पः संकल्पविकल्परहितः । निष्कलः निरंशः । अन्यत्सुगमम् ||५१ ॥ ] अथ परमशुद्धेः हेतुमाह । 2200) आविर्भूत - तदा आविर्भूतयथाख्यातः प्रगटीभूतयथाख्यातचारित्रः । पुनः कीदृशः अनन्तवीर्यवान् * । च पुनः । आत्मनः बोधस्य ज्ञानस्य । दृष्टेः सम्यग्दर्शनादेः । परां शुद्धि परिप्राप्तो भवतीति सूत्रार्थः ॥५२॥ अथायोग्यत्वमाह । [ ३९.५० 2201) अयोगी–अत्यन्तनिर्वृतः प्रचुरसौख्यमयः । शेषं सुगमम् ॥ ५३ ॥ पुनर्योगस्वरूपमाह । 2202) लघुपञ्चाक्षरोच्चार - स्वस्वभावात् ऊर्ध्वं व्रजति । परं किं कृत्वा । लघुपञ्चाक्षरोच्चारकालम् ‘अइउऋलृ' इत्युच्चारकालं स्थित्वा । इति सूत्रार्थः ||१४|| अथ पुनस्तदेवाह । Jain Education International उस समय वे अयोगी जिन निर्मल, शान्त, कर्मरूप कलंकसे रहित, रोगसे विहीन, जन्म-मरणरूप संसारके अनेक दुर्निवार बन्धजनित आपत्तियोंसे विमुक्त, सिद्ध, अतिशय प्रसिद्ध व निष्पन्नस्वरूपसे संयुक्त, कर्म -कालिमासे रहित, क्रियासे वियुक्त, शरीरसे रहित, शुद्ध, निर्विकल्प, अतिशय निश्चल, प्रकट हुए यथाख्यातचारित्रसे सहित अनन्त वीर्यसे विशिष्ट होकर अपने सम्यग्दर्शन व सम्यग्ज्ञानकी उत्कृष्ट विशुद्धिको प्राप्त, योगोंसे रहित हो जाने के अयोगी, असहाय, अतिशय सुखी, आत्मस्वरूपकी सिद्धिको प्राप्त, परमेष्ठी, सर्वोत्कृष्ट और अपूर्व प्रभावशाली होकर चौदहवें गुणस्थान में पाँच ( अ इ उ ऋ लृ ) ह्रस्व अक्षरों के उच्चारणके कालप्रमाण स्थित रहते हैं और तत्पश्चात् वे शुद्ध स्वरूपको प्राप्त होकर कर्मबन्धसे सर्वथा मुक्त होते हुए स्वभावतः ऊर्ध्वगमन करते हैं ।। ५०-५४ ॥ १. IF J सुप्रतिष्ठात्मा । २. M निःकलो निःक्रियः । ३. T निर्मलः यो ऽति । ४ SXY R निर्मलः । ५. J आविर्भूतो । ६. All others except P वीर्यवान् । ७. J X R केवलोत्पादनि । ८. M सादि o रात्मा स्वभा । ९. M N T परप्रभु, L SF J X Y R परं प्रभुः । १०. MN LT F स्व for स । 1 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828