________________
६६०
ज्ञानार्णवः
[३७.८
2087) असद्ध्यानानि जायन्ते स्वनाशायैव केवलम् ।
वस्तुविप्लवसामर्थ्यात् कौतुकेन कृतान्यपि ।।८ 2088) निर्भरानन्दसंदोहपदसंपादनक्षमम् ।
मुक्तिमार्गमतिक्रम्य कः कुमार्गे प्रवर्तते ।।९ 2089) क्षुद्रध्यानपरेप्रपञ्चचतुरा रागानलोद्दीपिता
मुद्रामण्डलयन्त्रमन्त्रकरणेराराधयन्त्यादृताः । कामक्रोधवशीकृतानिह सुरान् संसारसौख्यार्थिनो दुष्टाशाभिहताः पतन्ति नरके भोगातिभिर्वश्चिताः ॥१०
2087 ) असद्ध्यानानि-रागाद्यसद्ग्रहावेशात् रागद्वेषदुष्टाग्रहप्रवेशात् । कौतुकेन कृतान्यपि। शेषं सुगमम् । इति सूत्रार्थः ।।८।। अथ पुनराह ।
2088 ) निर्भरानन्द-कुमार्गे कः प्रवर्तते । किं कृत्वा। मुक्तिमार्गम् अतिक्रम्य । कीदृशम् । निर्भरानन्दसंदोहसंपादनक्षमं सघनामोद-समूहदानसमर्थम् । इति सूत्रार्थः ॥९॥ अथ पुनराह ।
2089) क्षुद्रध्यान-जीवा भोगातिभिः भोगवेदनाभिः वञ्चिताः । कीदृशाः । क्षुद्रध्यानपरप्रपञ्चचतुराः क्षुद्राः दुष्टाः ये ध्यानपराः, तेषां प्रपञ्चचतुराः । पुनः कीदृशाः । रागानलोद्दीपिताः रागाग्निजाज्वल्यमानाः। पुनः कीदृशाः। आदृताः यच्चरणे रताः । किं कृत्वा। मुद्रामण्डले प्रसिद्धे। मन्त्रः पुरुषाधिष्ठायकः, यन्त्रम् एकाशीतिप्रमुखम् । करणैः योगप्रसिद्धैः। तेषां समाहारः तैः । आराध्य । कान् । इहलोके सुरान् । कीदृशान् । कामक्रोधवशीकृतान् । संसारसौख्यार्थिनो जीवाः दुष्टाशाभिहताः नरके पतन्ति । इति सूत्रार्थः ।।१०।। अथ पुनस्तदाह ।
कुतूहलवश किये गये भी असमीचीन ध्यान वस्तुविनाशके सामर्थ्यसे-यथार्थ मार्गसे भ्रष्ट करनेवाले होनेसे-केवल आत्मघातके ही कारण होते हैं ॥८॥
__ जो मुक्तिमार्ग अतिशय आनन्दसमूहके स्थानभूत-अनन्त सुखसे परिपूर्ण-मोक्षपदके देने में समर्थ है उसका उल्लंघन करके कुमार्गमें प्रवृत्त कौन होगा-कोई भी बुद्धिमान् मनुष्य उसको छोड़कर कुमार्गमें प्रवृत्त नहीं होगा ।।९।।
जो क्षुद्र ध्यानके द्वारा दूसरोंके ठगनेमें चतुर होते हुए रागरूप अग्निसे जल रहे हैं वे यहाँ संसारसुखके अभिलाषी होकर मुद्रा, मण्डल, यन्त्र और मन्त्ररूप उपायोंके द्वारा आदरपूर्वक काम व क्रोधके वशीभूत हुए कुदेवोंकी आराधना करते हैं और दुष्ट आशाके वश होते हुए भोगोंकी पीड़ासे वंचित होकर नरकमें पड़ते हैं ॥१०॥
१. All others except P रागाद्यसद्ग्रहावेशात् कौतु । २. M पराः"मन्त्रयन्त्र । ३. T कृताश्च नितरां संसार । ४. M भोगाथिभि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org