________________
-२७ ]
३६. रूपस्थध्यानम् 2055) दिव्यपुष्पानकाशोकराजितं रागवर्जितम् ।
प्रातिहार्यमहालक्ष्मीलक्षितं परमेश्वरम् ।।२३ 2056) नवकेवललब्धिश्रीसंभवं स्वात्मसंभवम् ।
तुर्यध्यानमहावह्नौ हुतकर्मेन्धनोत्करम् ॥२४ 2057) रत्नत्रयसुधास्यन्दमन्दीकृतभवभ्रमम् ।
वीतसंगं जिताद्वैतं शिवं शान्तं च शाश्वतम् ।।२५ 2058) अर्हन्तमजमव्यक्तं कामदं कामघातकम् ।
पुराणपुरुषं देवं देवदेवं जिनेश्वरम् ॥२६ 2059) विश्वमूर्तिः परंज्योतिर्यो गिनाथं महेश्वरम् ।
अनामयमनाद्यन्तं त्रातारं भुवनेश्वरम् ॥२७ 2055) दिव्यपुष्प-दिव्यानि पुष्पाणि, आनको दिव्यध्वनिः, अशोकवृक्षः, तैः राजितम् । पुनः कीदृशम् । रागवजितम् । पुनः कीदृशम् । प्रातिहार्यमहालक्ष्मीः, तया लक्षितम् । परमेश्वरम् । इति सूत्रार्थः ।।२३।। पूनः कीदृशं तदाह ।।
2056) नवकेवल-नवकेवललब्धिश्रीसंभवं नवीनकेवलोपलब्धिलक्ष्मीसंभवम् । पुनः कीदृशम् । स्वात्मसंभवं निजानन्दजातम् । पुनः कीदृशम् । तुर्यध्यानमहावह्नौ शुक्लध्यानमहाग्नौ हुतकर्मेन्धनोत्करं दग्धकर्मेन्धनसमूहम् । इति सूत्रार्थः ॥२४॥ अथ पुनस्तदेवाह।
2057) रत्नत्रय-रत्नत्रयं सम्यग्दर्शनादित्रयं, तदेव सुधास्यन्दः अमृतद्रावः, तेन मन्दीकृतः भवभ्रमः येन सः, तं वीतरागम् । पुनः कीदृशम् । जिताद्वैतं जितैकान्तवादम् । शेषं सुगमम् । इति सूत्रार्थः ॥२५॥ [पुनः कीदृशं तदाह ।
___2058) अर्हन्तम्-अजं जन्मरहितम् । कामदम् ईप्सितप्रदम् । अव्यक्तम् अस्पष्टम् । शेषं सुगमम् ।।२६।। ] अथ पुनस्तदेवाह। ___2059) विश्वमूर्तिः-विश्वचक्षुः* जगन्नेत्रम् । पुनः कीदृशम् । जगद्वन्द्यम् । शेषं सुगमम् । इति सूत्रार्थः ॥२७॥ [पुनस्तमेव विशेषयन्नाह।] लीलायुक्त चामरोंके समूहसे वीज्यमान है, तृष्णासे रहित हो चुका है, मनुष्योंका स्वामी है, अभीष्टको प्रदान करनेवाला है, विश्वरूप है-समस्त पदार्थोंका ज्ञाता है, दिव्य पुष्प, आनक (दुन्दुभी ) व अशोक वृक्षसे विराजमान है, रागसे रहित है, प्रातिहार्यरूप महालक्ष्मीसे संयुक्त है, उत्कृष्ट ऐश्वर्यसे सहित है, उत्पन्न हुई नौ केवललब्धियों-केवलज्ञान, केवलदर्शन, क्षायिक दान, लाभ, भोग, उपभोग, वीर्य, सम्यक्त्व और चारित्रकी शोभासे सम्पन्न है, १. L S T F JX Y R भवश्रमं । २. M N S T F J Y R जितद्वैतं । ३. All others except P शान्तं सनातनं। ४.SXY R कामनाशक । ५. M पुराणं । ६ T देवं वन्दे जगज्जिने । ७. All others except P विश्वचक्षु ( S R नेत्रं ) जगद्वन्धं योगि....ज्योतिर्मय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org