________________
-२८]
६११
३४. पिण्डस्थध्यानम् 1901 ) सुधाम्बुप्रभवैः सान्द्रबिन्दुभिमौक्तिकोज्ज्वलैः ।
वर्षन्तं तं स्मरेद्धीरः स्थूलस्थूलैनिरन्तरैः ॥२५ 1902 ) ततो ऽर्धेन्दुसमं कोन्तं पुरं वरुणलाञ्छनम् ।
ध्यायेत्सुधापयःपूरैः प्लावयन्तं नभस्तलम् ॥२६ 1903 ) तेनाचिन्त्यप्रभावेण दिव्यध्यानोत्थिताम्बुना ।
प्रक्षालयति निःशेषं तद्रजः कायसंभवम् ॥२७।। वारुणी । 1904 ) सप्तधातुविनिर्मुक्तं पूर्णचन्द्रामलत्विषम् ।
सर्वज्ञकल्पमात्मानं ततः स्मरति शुद्धधीः ॥२८
1901) सुधाम्बु-बिन्दुभिर्वर्षन्तं स्मरेत् । कीदृशैः । सुधाम्बुप्रभवैः अमृताम्बुसंजातैः । सान्द्रैः । पुनः । मौक्तिकोज्ज्वलैः । पुनः कीदृशैः। स्थूलस्थूलैः निरन्तरैरिति सूत्रार्थः ॥२५।। अथ तदेवाह ।
1902) ततो ऽर्धेन्दु-ततः अर्धेन्दुसमम् अर्धचन्द्राकारं कान्तं प्रधानं वरुणमण्डलम् अप्तत्त्वम् । पुनः नभस्तलं प्लावयन्तम् । सुधापयःपूरैः अमृतजलसमूहैः । इति सूत्रार्थः ॥२६।। अथोपसंहरति ।
1903) तेनाचिन्त्य–तेन दिव्यध्यानोत्थिताम्बुना कायसंभवं तद्रजः निःशेषं समस्तं प्रक्षालयति । कीदृशेन । अचिन्त्यप्रभावेण । इति सूत्रार्थः ॥२७॥ वारुणी । पुनानमाह ।
__1904) सप्तधातु-ततः शुद्धधीः आत्मानं स्मरति । कीदृशम् आत्मानम् । सप्तधातुविनिर्मुक्तं सप्तधातुरहितम् । पुनः कीदृशम् । पूर्णचन्द्रामलत्विषं पार्वणचन्द्रनिर्मलरोचिषम् । पुनः कीदृशम् । सर्वज्ञकल्पं सर्वज्ञसदृशम् । इति सूत्रार्थः ।।२८।। अथ पुनरेतदेवाह ।
उस आकाशका स्मरण करते हुए धीर योगीको अमृतजलसे उत्पन्न हुए, सघन और और मोतियोंके समान निर्मल ऐसे बड़े-बड़े बिन्दुओंके द्वारा निरन्तर वर्षा करते हुए आकाशका विचार करना चाहिये ।।२५।
तत्पश्चात् अर्धचन्द्र के समान आकृतिको धारण करनेवाले वरुण बीजाक्षरसे चिह्नित उस रमणीय वरुणपुरका ध्यान करना चाहिये जो अमृत रूप जलके प्रवाहसे आकाशको डुबो रहा हो-जलमय कर रहा हो ॥२६॥
तब योगी अचिन्त्य प्रभाववाले उस दिव्य ध्यानसे उत्पन्न जलके द्वारा भस्म हुए शरीरसे उत्पन्न उस समस्त धूलिको धोता है, ऐसा विचार करे ॥२७॥ वारुणी धारणा ।
__ तत्पश्चात् विशुद्ध बुद्धिके धारक योगीको अपने आपका रस-रुधिरादि सात धातुओंसे रहित और पूर्ण चन्द्रमाके समान निर्मल कान्तिवाला सर्वज्ञतुल्य स्मरण करना चाहिये ॥२८॥
१. All others except PT Y निरन्तरम् । २. T °न्दुसमाकारं । ३. All others except PM लाञ्छितम् । ४. Only PM वारुणी। ५. LS F R संयमी for शुद्धधीः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org