________________
[३५.२२
ज्ञानार्णवः 1933 ) तत्र कैश्चिच्च वर्णादिभेदैस्तत्कॅल्पितं पुनः ।
मन्त्रमण्डलमुद्रादिसाधनैरिष्टेसिद्धिदम् ॥२२ 1934 ) उक्तं च-- __ अकारादि हकारान्तं रेफमध्यं सबिन्दुकम् ।
तदेव परमं तत्त्वं यो जानाति स तत्ववित् ।।२२*१॥ इति । 1935 ) सर्वावयवसंपूर्ण ततो ऽवयवविच्युतम् ।
क्रमेण चिन्तयेद्वयानी वर्णमात्रं शशिप्रभम् ।।२३।।हः । 1936 ) बिन्दुहीनं कलाहीनं रेफद्वितयवर्जितम् ।
अनक्षरत्वमापनमनुच्चार्य च चिन्तयेत् ॥२४॥ है ।
1933) तत्र कैश्चित्-तत्र शास्त्रे कैश्चित् पण्डितादिभेदैः वर्णान्तरैः तत्त्वं प्रकल्पितं कथितम् । पुनः कैः । मन्त्रमण्डलैः, मुद्रा आसनादि तान्येव साधनानि तैः । इष्टसिद्धिदं वाञ्छितसिद्धिदातारम् । इति सूत्रार्थः ।।२२।। उक्तं च शास्त्रान्तरे।
1934) अकारादि-अकारः आदौ यस्य तत् अकारादि । पुनः कीदृशम् । हकारान्तं हकारः अन्ते यस्य तत् तथा । पुनः कीदृशम् । रेफमध्यं सबिन्दुकम् । अहँ सिद्धम् । उत्तरार्धं सुगमम् । इति सूत्रार्थः ।।२२*१।। अथ पुनस्तदेवाह ।
1935) सर्वावयव-अवयवविच्युतम् अवयवरहितम् । शशिप्रभं शशी इव प्रभा यस्य तत् । शेषं सुगमम् ।।२३।। अहम् । पुर्विशेषमाह ।
1936) बिन्दुहीनम्-अनक्षरं ककारादिव्यञ्जनरहितम् । अनुच्चार्यम् । शेषं सुगमम् । इति सूत्रार्थः ।।२४।। अथ पुनर्विशेषमाह ।
वहाँ कितने ही महर्षियोंने उसे वर्णादिके भेदके अनुसार तथा मन्त्र मण्डल और मुद्रा आदिरूप साधनसामग्रीके अनुसार अभीष्ट सिद्धिको देनेवाला माना है ।।२२।। कहा भी है
जिसके आदिमें अकार है, अन्तमें हकार है और मध्यमें बिन्दु सहित रेफ है वही ( अहं ) उत्कृष्ट तत्त्व है । उसको जो जानता है वह तत्त्वज्ञ माना जाता है ।।२२ १||
योगीको उसका ध्यान क्रमशः सब अवयवों (रेफ, विन्दु व कला ) से सम्पूर्ण, और तत्पश्चात उन अवयवोंसे रहित व चन्द्रसमान कान्तिमान् केवल वणे मात्र (ह) के रूपमें करना चाहिए ॥२३॥
___ फिर बिन्दुसे रहित, कलासे रहित, दोनों रेफोंसे रहित, अक्षर स्वरूपसे रहित और उच्चारणसे भी रहित उसका चिन्तन करना चाहिए ।॥२४॥
१. M N L TJ X Y भेदैस्तत्त्वं प्रकल्पितं। २. X रष्टसिद्धि । ३. P M N इति । ४. PM हः । ५. P M N ह, L अं, T अ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org