________________
५५८
ज्ञानार्णवः
[३२.३०1688 ) इत्थं कर्मकटुप्रपाककलिताः संसारघोरार्णवे
जीवा दुर्गतिदुःखवाडवशिखासंतानसंतापिताः । मृत्युत्पत्तिमहोर्मिजालनिचिता मिथ्यात्ववातेरिताः
क्लिश्यन्ते तदिदं स्मरन्तु नियतं धन्याः स्वसिद्ध्यर्थिनः ॥३० इति ज्ञानार्णवे योगप्रदीपाधिकारे ['आचार्य-श्री-शुभचन्द्र
विरचिते ] विपाकविचयप्रकरणम् ॥३२॥ 1688) इत्थं कर्म-जीवाः संसारघोराणवे इत्थममुना प्रकारेण क्लिश्यन्ते । कीदृशाः । कमकटुप्रपाककलिताः कटुविपाकसहिताः । पुनः कीदृशाः। दुर्गतिदुःखवाडवशिखासंतानसंतापिताः नरकादिगतिदुःखवडवाग्निज्वालासमूहसंतापिताः । पुनः कीदृशाः। मृत्यूत्पत्तिमहोमिजालनिचिताः जन्ममरणमहाकल्लोलमालायुताः । पुनः कीदृशाः। मिथ्यात्ववातेरिताः धन्याः तदिदं स्मरन्तु नियतं स्वसिद्ध्यर्थिनः । इति सूत्रार्थः ।।३०।। इति श्री-शुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहपासातत्पुत्र-साहटोडर-तत्कुलकमलदिवाकर-साहरिषिदास-स्वश्रवणार्थं पण्डितजिन
दासोद्यमेन कारापितं विपाकविचयप्रकरणं समाप्तम् ॥३२॥ विगताशेषमिथ्यात्वः पाश्वो ऽभूद्विभवान्वितः। टोडरो गुणिविख्यातो जीयाच्छी-ऋषिदासकः॥ इति आशीर्वादः । अथ लोकस्वरूपमाह।
इस प्रकार कर्मके कडुवे फलसे संयुक्त प्राणी संसाररूप भयानक समुद्र में पड़कर दुर्गतिके दुखरूप बड़वानलकी ज्वालाओंके समूहसे व्याकुल और मिथ्यात्वरूप वायुसे प्रेरित होते । हुए मरण एवं जन्मरूप बड़ी-बड़ी लहरोंके समूहसे व्याप्त होकर संक्लेशको प्राप्त हो रहे हैं । इसलिए जो पुण्यशाली जीव आत्मसिद्धि (मुक्ति) की अभिलाषा करते हैं उन्हें निरन्तर उस कर्मके कडुवे फल (अनुभाग) का विचार करना चाहिए ॥३०॥ इस प्रकार ज्ञानार्णव योगप्रदीपाधिकारमें विपाकविचय
प्रकरण समाप्त हुआ ॥३२।।
१. P om.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org