________________
१९. त्रितत्त्वम्
पिहित निखिलनभस्तलशूद्रकाद्रवेयवेलयित मरुन्मुद्रोपपन्नविन्दुसंदोहसुन्दरमहामारुतवलयत्रितयात्मकसकलभुवनाभोगवायुपरि - मण्डलनभस्वत्पुरान्तर्गतबभ्रुवाहनकुरङ्गवेगविहरणदुर्ललितः र्केरतलकलितचल विटपको टिकिसलयशालशा लिमरुन्मुद्रोच्छेलितसकलभुवनः पवनमयवदनारविन्दः । [ इति 'वायुतत्त्वम् । ] ॥५
- ९१-५ ]
शूद्रकाद्रवेयः परि सामस्त्येन परिभूता जिता । षट्चरणचक्रवालस्य भृङ्गसमूहस्य कालिमा यदा एवंभूता निजतनुः स्वशरीरं तस्याः समुच्छलत् समन्तादुच्छलत् यो ऽसौ बहलकान्तिपटलः सघन - कान्तिसमूहः तेन पिहितमाच्छादितं निखिलं नभस्तलं येन स तथा । पुनः कीदृशः । शूद्रकाद्रवेयवलयितमरुन्मुद्रोपपन्नबिन्दुसंदोहसुन्दरमहामारुतवलयत्रितयात्मकः, शूद्रकाद्रवेयाः सर्वविशेषाः तदिव वलयिता वलयाकारेण जाता मरुन्मुद्रा मरुदलंकृतिः तया उपपन्नाः स्थिता ये बिन्दवस्तेषां संदोहेन सुन्दरः यो महामारुतः महावायुः तस्य वलयत्रितयं तदात्मकं यः स तथा । पुनः कीदृशः । सकलभुवनाभोगो भुवनविस्तारः, तत्र यो वायुपरिमण्डल:, तेन नभस्वत्पुरान्तर्गतवायुमण्डलान्तर स्थितः यः स तथा । पुनः कीदृशः । वाहनकुरङ्गवेगविहरण: वाहनो यो ऽसौ कुरङ्गो हरिणः तस्य वेगस्तेन विहरणं शीघ्रगामित्वाद्यस्य स तथा । पुनः कीदृश: । ललिता दुर्नमिता करतलेन कलिता व्याप्ता चलाश्चञ्चला ये विटपास्तेषां कोटयः, तासां किसलयाः, तैः शालते यः स तथा । पुनः । मरुन्मुद्रो
३५९
अतिप्रचुरायासौ कान्तिर्दीप्तिः तस्याः पटलानि समूहास्तैः पिहितम् आच्छादितं निखिलं समस्तं नभस्तलं गगनमण्डलं याभ्यां तौ च तौ शूद्रकाद्रवेयौ शूद्रजातीयसर्पों तक्षक- महापद्मनामानौ ताभ्यां वलयितं वेष्टितं तच्च तत्सुरतमुद्रोपपन्न बिन्दुसंदोहसुन्दरं सुरतस्य संभोगस्य या मुद्रा आलिङ्गनचुम्बनादिव्यापारलक्षणा तस्याम् उत्पन्नाः संजाता ये बिन्दवः प्रस्वेदजलकणाः तेषां संदोहः समूहः तेनैव सुन्दरं मनोहरं जलबिन्दुभिर्व्याप्तमित्यर्थः । तच्च तन्महामारुतवलयत्रितयात्मकं महान्तो ऽतिप्रचण्डाः अतिस्थूलतराश्च ये मारुताः पवनास्तेषां वलयत्रितयं गोमूत्रिकाकारचक्रवालत्रितयं, तत् आत्मा स्वरूपं यस्य तत् महामारुतवलयत्रितयात्मकं तच्च तत्सकलभुवनाभोगवायुपरिमण्डलं सकलं च तत् भुवनं जगत् तस्य आभोग आटोप. तत्र यत् वायुपरिमण्डलं वातचक्रं तन्मयं यत् नभस्वत्पुरं वायुमण्डलं तस्य अन्तर्गतो मध्येस्थितो यो ऽसौ वाहनकुरङ्गः वाहनसंबन्धी मृगः वातप्रमीनामको हरिणः तस्य वेगविहरणे शीघ्रधावने दुर्ललितम् अप्रतिहतव्यापारम् आस्फालनकर्कशं कठिनं यत्करतलं हस्ततलं तेन कलितो धृतो यो ऽसौ चलविटपकोटिकिसलयशालः चलानि चपलानि विटपकोटिषु विटपाग्रेषु किसलयानि पल्लवाः यस्य स चासौ शालो वृक्षः तेन
समूह से समस्त आकाशमण्डलको आच्छादित करनेवाले ऐसे शूद्र जातिके दो सर्पों (तक्षक व महापद्म) से वेष्टित, वायुकी मुद्रासे युक्त, बिन्दुसमूहसे सुन्दर, महावायुके तीन मण्डलस्वरूप समस्त लोकके मध्यवर्ती वायुमण्डल स्वरूप ऐसे त्रायुपुर के मध्य में स्थित विष्णुका वाहन हिरण वेगसे दुर्ललित, हाथ में ग्रहण किये गये चंचल वृक्षके अग्र भाग में स्थित कोमल
१. M N काद्रवेयावलम्बित । २ M N भोगपूरवायु । ३. All others except PM Nom. बभ्रु । ४. All others except P दुर्ललितकर । ५. M N मुद्रोच्चलित । ६. PM om. इति वायुतत्त्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org