________________
४२४
ज्ञानार्णवः
[ २४.४
1226 ) हिंसारौद्रं तद्यथा
हते निष्पीडिते ध्वस्ते जन्तुजाते कदर्थिते ।
स्वेन चान्येन यो हर्षस्तद्धिंसारौद्रमुच्यते ॥४ 1227 ) अनारतं निष्करुणस्वभावः
स्वभावतः क्रोधकषायदीप्तः । मदोद्धतः पापमतिः कुशीलः
स्यानास्तिको यः स हि रौद्रधामा ॥५ 1228 ) हिंसाकर्मणि कौशलं निपुणता पापोपदेशे भृशं
दाक्ष्यं नास्तिकशासने प्रतिदिनं प्राणातिपाते रतिः । संवासः सह निदेयैरविरतं नैसर्गिकी क्रूरता
यत्स्यादेहभृतां तदत्र गदितं रौद्रं प्रशान्ताशयैः ॥६ 1226 ) हते-जन्तुजाते प्राणिसमूहे। स्वेनात्मना। च पुनः । अन्येन केनचित् हते सति । निष्पीडिते नितरां पीडिते सति । ध्वस्ते निराकृते, कथिते पीडिते यो हर्षः तद् हिंसारौद्रमुच्यते कथ्यते । इति सूत्रार्थः ।।४।। अथ पुनस्तदेवाह।
___1227 ) अनारत-अनारतं निष्करुणस्वभावः । स्वभावतः क्रोधकषायदीप्तः क्रोधादिकषायज्वलितः । पुनः कीदृशः। मदोद्धतः मदोत्कटः । पुनः पापमतिकुशीलौ सुगमौ । एतादृशः कः । नास्तिकः। हि निश्चितम् । स पूर्वोक्तविशेषणविशिष्टो नास्तिकः । रौद्रधाम रौद्रस्थानम् । इति सूत्रार्थः ॥५।। अथ पुनः रौद्रस्वरूपमाह ।
___1228 ) हिंसाकर्मणि-प्रशान्ताशयैः प्रशान्तचित्तैरत्र तद्रौद्रं देहभृतां प्राणिनां गदितं कथितम् । यत् हिंसाकर्मणि चतुरता पापोपदेशे निपुणता। सुगमम् । भृशमत्यर्थं नास्तिकशासने नास्तिकमते दाक्ष्यम् । प्रतिदिनं निरन्तरं प्राणातिपाते रतिर्वाञ्छा। निर्दयैः सहाविरतं संवासः। नैसर्गिकी स्वभावजा क्रूरता । यद्यस्मात् तत् । इति सूत्रार्थः ॥६।। अथ हिंसानन्दा[ख्य]रौद्रमाह ।
हिंसारौद्र जैसे—स्वयं अपने द्वारा अथवा अन्यके द्वारा प्राणिसमूहके मारे जानेपर, दबाये जानेपर, नष्ट किये जानेपर, अथवा पीड़ित किये जानेपर जो हर्ष हुआ करता है उसे रौद्रध्यान कहते हैं ।।४।।
जो जीव निरन्तर क्रूर स्वभावसे संयुक्त, स्वभावतः क्रोधकषायसे सन्तप्त, अभिमानमें चूर रहनेवाला, पापबुद्धि, दुराचारी और नास्तिक ( लोक-परलोकको न माननेवाला) होता है उसे रौद्रध्यानका स्थान (रौद्रध्यानी) समझना चाहिए ।।५।।
प्राणियोंके जो हिंसा करने में कुशलता, पापके उपदेशमें अतिशय प्रवीणता, नास्तिक मतके प्रतिपादनमें चतुरता, प्रतिदिन प्राणघातमें अनुराग, दुष्ट जनोंके साथ सहवास, तथा निरन्तर जो स्वाभाविक दुष्टता रहती है उसे यहाँ वीतराग महात्माओंने रौद्रध्यान कहा है ॥६॥
१. PM X हिंसारौद्रं तद्यथा । २. M N T वान्येन । ३. T महोद्धतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org