________________
२८. सवीर्यध्यानम्
५०३ 1504 ) 'यद्बोधानन्तभागे ऽपि द्रव्यपर्यायसंभृतम् ।
लोकालोकं स्थितिं धत्ते स स्याल्लोकत्रयी गुरुः ॥३३ 1505 ) तत्स्वरूपाहितस्वान्तस्तद्गुणग्रामरञ्जितः ।
योजयत्यात्मनात्मानं तस्मिस्तद्रपसिद्धये ॥३४ 1506 ) इत्यजस्र स्मरन् योगी तत्स्वरूपावलम्बितः ।
तन्मयत्वमवाप्नोति ग्राह्यग्राहकवर्जितम् ।।३५ 1507 ) अनन्यशरणीभूय स तस्मिल्लीयते तथा ।
ध्यातृध्यानोभयाभावे ध्येयेनैक्यं यथा व्रजेत् ॥३६ ___1504) यद्वोधानन्त–स आत्मा लोकत्रयीगुरुः । स कः । यद्बोधानन्तभागे यज्ज्ञानानन्तभागे ऽपि । द्रव्यपर्यायसंभृतं स्यात् । यो लोकालोकस्थितिं धत्ते । इति सूत्रार्थः ।।३३।। अथ तद्विषयकध्यानमाह।
___1505) तत्स्वरूपाहित—यो जयति आत्मनात्मानम् । पुमानिति गम्यम् । कीदृशम् । तत्स्वरूपे आहितं स्थापितं स्वान्तं चित्तं येन सः । पुनः । तद्गुणग्रामरञ्जितः । क्वात्मान तस्मिन्नात्मनि । किमर्थम् । तद्रपोपलब्धये तपप्राप्तये । इति सूत्रार्थः ।।३४।। अथ तद्ध्यानफलमाह।
1506) इत्यजस्रम्-योगी तन्मयत्वमात्ममयत्वमवाप्नोति प्राप्नोति । किं कुर्वन् । अजस्रं निरन्तरम् इति स्मरन् । कीदृशः। तत्स्वरूपावलम्बितः आत्मस्वरूपावलम्बितः । कीदृशम् । ग्राह्यग्राहकवर्जितम् । ग्राह्यं वस्तु, ग्राहकः पुरुषः, ताभ्यां वजितम् । इति सूत्रार्थः ॥३५।। अथ तत्स्वरूपमाह।
1507) अनन्य-अनन्यशरणीभूय एकमेवैनं शरणीकृत्य । तस्मिन् आत्मनि स आत्मा लीयते।
जिस परमात्माके ज्ञानके अनन्तवें भागमें भी समस्त द्रव्यों और उनकी अनन्त पर्यायोंसे परिपूर्ण पूरा लोक व अलोक स्थितिको धारण करता है वह तीनों ही लोकोंमें महान् है। अभिप्राय यह है कि उक्त परमात्माके अपरिमित ज्ञानमें समस्त लोक और अनन्त अलोकाकाश भी परमाणुके समान अल्प प्रतीत होता है ।।३३।।
उक्त परमात्माके गुणसमूहमें अनुरक्त हुआ योगी उसके स्वरूपको सिद्ध करनेके लिए उसके उस स्वरूपमें अन्तःकरणको स्थापित करता हुआ अपने आत्माको स्वयं उसीके विषयमें योजित करता है ॥३४॥
इस प्रकारसे उसके स्वरूपका आश्रय लेकर योगी निरन्तर उसीका स्मरण करता हआ ग्राह्य और ग्राहकके विकल्पसे रहित होकर-निर्विकल्प समाधिमें अवस्थित होकर-स्वयं ही उस स्वरूपको प्राप्त कर लेता है ॥३५।।
उस समय योगी परमात्माके सिवाय अन्यको शरण न मानकर उस परमात्मामें
१.Y तबोधा। २. M त्मनाज्ञानं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org